________________
यक्षरकाण्डे स्त्रीलिङ्गाध्यायः ।
अपीच्छायामिरा तु स्यात् मुरायां सलिले दिवि । दैत्यान्ने न क्षितौ वाचि स्यादिला तु गवि क्षितौ ॥ १२ ॥ दिवि वाच्यार्घ्यनाड्योश्च देवताबुधभार्ययोः । इज्या तु यागे पूजायां जनन्यामपि सज्जनः ॥ १३ ॥ इष्टिोगेच्छयोरीषा रथसीरादिदण्डके । प्रमाणभेदे भगवानष्टाशीतिशतागुले ॥ १४ ॥ इहा तु वाञ्छोद्यमयोरीतिर्डिम्बप्रवासयोः । ..... उमा कीर्त्यामतस्यां च गिरिजायां श्रियामपि ॥ १५ ॥ जतिस्तु रक्षणे स्यूतौ चेत्येके तत्तु नो तथा । वय तु ब्रूम ऊशब्दकथितैकोनविंशतौ ॥ १६ ॥ अर्थेषु स्यात् तथा स्यूतौ चेत्यथो ऋद्धिरोषधौ । ऋद्धिरित्येव विख्याता या वृद्धिरिति चापरा.॥ १७ ।। तस्यामपि विभूतौ च कक्ष्या साम्यवरत्रयोः । कच्छाख्यगुह्यवस्ने च काञ्च्यां गेहप्रकोष्ठके ।। १८ ॥ पार्श्वद्यङ्गसमुद्भूतरोगभेदेऽङ्गुलावपि । कथाख्यानाह्वयग्रन्थविशेषे कथनेऽपि च ॥ १९ ॥ कन्था ग्रामे च भित्तौ च बहुचीरकृताम्बरे । कन्या तु षष्ठराशौ स्यात् प्रियङ्ग्वाख्यमहीरुहे ॥ २० ॥ कुमार्या शारिबायां च तरणीसंज्ञगुल्मके । कर्मी हाटकपुत्र्यां स्यादपि शालापलालयोः ॥ २१ ॥ कम्बूस्तु कुरुविन्दे स्याद् भूषणे च त्सरावपि । ककुबुष्णिग्विशेषे स्याद् भूभृतः शिखरे दिशि ॥ २२ ॥ वाचि चैकोन्नपञ्चाशद्रात्रे सत्रे तु भूमनि । कान्तिः शोभेच्छयोः काञ्ची मेखलापुरभेदयोः ॥ २३ ॥
२. 'कोन' क, ग. घ. पाठः.
३. 'त्र' ख. पाठः.
५
१. 'ते' क. घ. पाठः. 'च' क. घ. पाठः.