SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ एकाक्षरकाण्डे नानालिङ्गाध्यायः। सर्वेषु पूर्वोक्तार्थेप्वित्येवं प्राक्छब्द ईरितः । मेषादिराशौ नक्षत्रे वैयाकरणसंज्ञिनि ॥ १५ ॥ क्लीबं भं भा तु भासि स्त्री भोजराजेन संस्कृता । राद् स्त्री छन्दोविशेष स्याद् द्वाविंशत्यक्षरेऽथ ना ॥ १६ ॥ पार्थिवे क्रतुभेदे च रैशब्दो धनरुक्मयोः । नृस्त्रियोर्नाम्बुदेऽथ द्वे विः खगे त्रिषु गन्तरि ॥ १७ ॥ परमात्मनि नाथ स्त्री विद् ज्ञाने ज्ञातरि त्रिषु । ना रौहिणेये विद् तु स्त्रीशण्डयोगुंढवाचि(निानी) ॥ १८ ॥ अङ्गुल्यां स्त्री समानाये समाम्नाताज(ने? ये)न च । द्वयोर्मनुष्ये वैश्ये च स्वं त्वात्मात्मीययोस्त्रिषु ॥ १९ ॥ धने तु नप् पुमान् ज्ञातौ तकारान्तं तु सत् त्रिपु । सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते बुधे ॥ २० ॥ शोभने च सती तु स्त्री तुवरीसंज्ञभेषजे । लक्ष्मीपतिव्रताशैलतनयासु चतुर्वथ ॥ २१ ।। शब्देऽपि कश्चित् सच्छब्दस्तस्य लिङ्गं विचार्यताम् । सज्जनस्त्वेनमाम्नासीन्नक्षत्रे तन्नपुंसकम् ॥ २२ ॥ परब्रह्मणि नीरे च वयं ब्रूमो नपुंसकम् । . सेशब्दः सेवने स्त्री स्यात् सेवके वाच्यलिङ्गकः ॥ २३ ॥ इत्येकाक्षरकाण्डे नानालिकाध्यायः । एकाक्षरकाण्डः समाप्तः। १. 'नप्' ग. घ. पाठः. २. न्तस्तु स' क. ग. घ. पाठः
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy