SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ नानार्थार्णवसंक्षेपे नृस्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमसु । अश्वानां प्रग्रहेऽप्येष* यत्साधारणनामसु ॥ ४ ॥ प्रग्रहस्य मरीचेश्च समाम्नायेऽमुमामनत् । । धनुर्गुणे सुषुम्णाख्यरश्मिभेदे च भास्वतः ॥ ५॥ द्वयोस्त्वश्वे तथा ह्याह स्कन्दस्वाम्यूक्षु भूरिशः । माधवाचार्यसूरिश्च को अद्येत्य॒चि भाषते ॥ १ ॥ समानाये समानातः स्तोत्रनामसु स त्रिषु ।' विकारयोर्लक्षणया दुग्धाभिषवचर्मणोः ॥ ७ ॥ चर्मणो गोविकारस्य विकारे श्लेष्मसंज्ञके । नृस्त्रियोरविशेषेण कश्चिदेनं समामनत् ॥ ८ ॥ अथ चित् स्यात् स्त्रियां ज्ञाने ज्ञातरि त्वेष भेद्यवत् । अथच्छिच्छेदने स्त्री स्याच्छेत्तरि त्वेष भेद्यवत् ॥ ९ ॥ आत्मचान्द्रमसायन्यो इनर्ना ज्ञो ज्ञातरि तु त्रिषु। . जूजवे स्त्री राक्षसे द्वे त्वशब्दोऽर्थे पुमांस्त्रि तु ॥ १० ॥ एकार्थे युष्मदर्थे च तेशब्दः क्रीडने स्त्रियाम् । क्रीडके त्रिषु सूर्ये तु दिवित्येष ध्वनिः पुमान् ॥ ११ ॥ स्त्री खे खर्गे च दृक् तु स्त्री ज्ञानदर्शनबुद्धिषु । नेत्रे च त्रिषु तु द्रष्टज्ञात्रो द्वे हरे हये ॥ १२ ॥ यदा त्वस्य स्त्रियां वृत्तिस्तदा नारीति दृश्यताम् । दिग्देशकालविषये पूर्वेऽर्वाचि च भेद्यवत् ॥ १३ ॥ प्राग्भवे माङ् मुखे चैव प्राची तु स्त्री हरेर्दिशि । प्रथमापञ्चमीसप्तम्यर्थेष्वव्यय एव वा ॥ १४ ॥ * अजयः। 5. 'को अद्य युङ्क्ते धुरि गा ऋतस्य' (अष्ट. १. अध्या. ६. वर्ग, ८) यस्याचि। ३ चन्द्रमःशब्दस्तिकादिः। अविभक्तिको निर्देशः ।
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy