SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १३२ नानार्थार्णवसंक्षेपे देवजात्यन्तरे तु द्वे खापयाख्ये तथा शुनि । यमो वैवस्वते पंसि यमने च शनैश्चरे ॥ १०४०॥ शब्दवर्णविशेषेषु शिक्षाकाराश्चतुर्वपि । शरीरसाधनापेक्षे सत्यादी नित्यकर्मणि ॥ १०४१ ॥ वलिगताख्यस्य घोटानां गतिभेदस्य चाष्टसु । भेदेष्वेकत्र भेदे स्यात् क्ली तु युग्मे त्रिषु त्वदः ॥ १०४२ ॥ यमजे युग्मवति च यमी तु यमुनाधुनौ । स्त्री यम्याविति तु द्यावापृथिव्योहूँ तु वायसे ॥ १०४३ ॥ हीनाधिकाङ्गतुरगेऽप्यथ क्लीबं यतं स्मृतम् । यमने हस्तिपानां च पादकर्मणि तत् स्मरेत् ॥ १०४४ ॥ भेद्यलिङ्गं तु बद्धे स्यात् तथैवोपरतेऽपि च । यन्त्रं तु क्ली लघूपायकर्मनिर्माणसाने ॥ १०४५ ॥ यन्त्रणायां तु नाथ स्त्री यवा रश्मिमनीषयोः । भेबलिङ्गं तु महति यवोत्पत्त्युचिते पुनः ॥ १०४६ ॥ क्षेत्रे यव्यं त्रिषु यवसाधौ यवहिते तथा । यव्या तु नद्यों स्त्री यम्या पुना रात्रौ स्त्रियां त्रि तु ॥ १.०४७ ॥ विद्याद् यमयितव्ये च यन्तव्ये यमसाधुनि । यजिस्तु यजमाने द्वे इति कश्चिदवोचत ॥ १०४८ ॥ धातौ तु यजतौ पुंस्त्वे यतिस्तु त्रिजितेन्द्रिये । परिव्राज्यपरे स्त्री तु यमने पद्यकारिणाम् ॥ १०४९ ॥ पदच्छेदान्तरे कारागृहे धातौ तु पुंस्ययम् । यततौ यष्टिशब्दस्तु नृस्त्रियोर्दण्डमात्रके ॥ १०५० ॥ गृहस्थदण्डे त्वाहान्यस्तोमराख्यायुधान्तरे । तरवारिसमाख्येऽन्ये खड्गादन्यत्र चायुधे ॥ १०५१ ।। १. स्त्रियां य' ग. पाठः. २. 'ति द्या' ग. पाठः. ३. “धुनि ।' गः पाठः... 'री' क. ख, पाट:. . ५. 'त्यां' ह. पाठः,
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy