________________
अक्षरकाण्डे नानालिगाध्यायः। .
१३१
शते रश्मिपु मेथ्यो प्यो)ऽथ गेनो ना पूर्वपार्थिवे । पृषदश्वाह्रये स्त्री तु मेना नार्या स्त्रियां पुनः ॥ १०२९ ॥ मेहा भूमी पुमान् मूत्रव्याधिगेदेऽपि मूत्रणे । म्लेच्छाः स्युर्लेच्छवाचो ये विप्रकृष्टा वनौकसः ॥ १०३० ॥ तत्र द्वयोम्लेंच्छने तु म्लेच्छा नृस्त्री नपि त्वदः । ताने मेला तु(मे?म)प्यां* स्त्री मेलस्तु नरि सङ्गमें ॥ १०३१ ॥ मेदा तु स्त्र्योषधीभेदे मेदने ना द्वयाः पुनः । वैदेहकनिपादीजे मर्त्यजात्यन्तरे भवेत ॥ १०३२ ।। मेही तु द्वीपिसंज्ञे स्याद् व्याघ्रजात्यन्तरे द्वयोः । भेद्यलिङ्गं तु यस्यास्ति मेहस्तत्र द्वयोः पुनः ॥ १०३३ ॥ . . . मैत्रो विप्रे तथान्यत्र मर्त्यजात्यन्तरेऽपि च । वैश्यपूर्वकवैश्याजे व्रात्यात् स्यात् तु नपुंसकम् ॥ १०३४ ।। पुरीपोत्सर्जने मित्रसम्बन्धिनि तु स त्रिषु । स्त्रीशण्डयोस्तु मित्रत्वे मैत्री मोचा तु शल्मलौ ॥ १०३५ ॥ कदलीमात्र इत्येके सुगन्ध्यल्पफला तु या । तस्यां कदल्यामित्यन्ये वृक्षस्य तु रसे पुमान् ॥ १०३६ ॥ शिनौ तु कश्चित् पाटल्यां पुनः स्त्रीपुंसयोरपि । मोकस्तु मोचने शिप्ये ना चतुप्पदि तु द्वयोः ॥ १०३७ ॥ मोकी तु रात्री स्त्री मोही। पुनर्भक्षान्तरे स्त्रियाम् । मर्मरासंज्ञके मूढसम्बन्धिनि तु सा त्रिषु ॥ १०३८ ॥ मौलिस्तु नृस्त्रियोर्मूनि चूडामकुटयोरपि । तथा संयतकेशेषु यक्षो वैश्रवणे पुमान् ॥ १०३९ ॥
-
१. 'ध्या' ङ. पाठः, . २. 'घ' ख. पाठः.
* 'मेला मसीजलं पत्रानं च स्यान्मसिद्धयोः' इति त्रिकाण्डशेषः। मर्मरा' (पु. १६४. श्लो. ७०) इति तु वैजयन्ती ।
'मौडी तु