________________
१२४
नानार्थार्णवसोपे त्रि(तुःषु) क्षीबे च हृष्टे च क्लीबं तु मदकर्मणि । मर्तस्त्वृप्यन्तरे पुंसि मर्त्यलोकेऽप्यथ द्वयोः ॥ ९४७ ॥ मनुष्ये मर्कशब्दरतु देवदारुतरौ पुमान् । मनोविरिञ्चयोंर्वायौ कश्चित् त्वाहाप्रचन्द्रयोः ॥ ९४८ ॥ आदित्येऽप्यथ सर्प द्वे त्रि तु विनस्य कर्तरि । मणिः स्त्रीपुंसयो रने मणिबन्धेऽप्यलिञ्जरे ॥ ९४९ ॥ अजादिकण्ठप्रभवे स्तनाकारे च वस्तुनि । काष्ठलोहादिनिष्पाद्यगुलिकायामथाजयः ॥ ९५० । गोलमात्रे परे त्वेनं गुह्यमध्यगुले विदुः । मेहनावयवे त्वन्ये शेफाग्रं स च मन्यताम् ॥ ९५१ ॥ कश्चित् प्रायुक्त घण्टायां धातौं तु मंणतौ पुमान् । मल्लिस्तु मत्स्यभेदे स्त्री स्यात् कपालकरकयोः ॥ ९१२ ॥ इत्येवमजयः स्माह धातौ तु नरि मल्लतौ । मासस्तु शस्त्र्यां कृपणतृष्णायामिति कश्चन ॥ ९५३ ॥ स्त्रियां पुंसि त्वविश्वास्यो वाक्पतिः पठति स्म तम् । धातौ तु मस्यतौ पुंसि महिस्तु धरणौ स्त्रियाम् ॥ ९९४ ॥ उदाहृतो ह्यसौ भागवृत्तिकारेण वाक्तिनः । इत्यत्र कृदिकारान्तो महति त्वेष भेद्यवत् ॥ ९९५ ॥ मधुम्तु ना चैत्रमासे वसन्ते दानवान्तरे । पूर्वक्षत्रियभेदे च विप्रभेदे च कुत्रचित् ॥ ९५६ ॥ मधूकद्रौ कुरवके मद्यभेदे च कुत्रचित् । मध्वासवाख्ये मधुररसे मिश्ररसे तथा ॥ ९५७ ॥ वैजयन्त्याह कटुकस्वादुतिक्तत्रयात्मकें। एतद्रसद्वयवति पुनस्त्रिः क्ली तु वारिणि ॥९५८ ॥
१. 'न स्त्रिया पुंसि वि' क. घ. पाठ:. २. 'स' ख. पाठः,