________________
१२३
यक्षरकाण्डे मानालिशाध्यायः ।। मत्स्यस्तु मीने द्वे नीवृद्भेदे तु नरि भूमनि । तद्राजे तु पुमान् मीनराशौ चाथो मघं धने ॥ ९३६ ॥ क्ली स्त्रीभूम्नि मघा अमिनक्षत्रे कालमात्रके । तद्युक्तेऽथ मयः पुंसि दैत्यतक्षणि हिंसने ॥ ९३७ ।। प्रक्षेपणे च द्वे तूटे तथाश्वेऽथो मलोऽस्त्रियाम् । स्यात् पापकिट्टविष्ठासु वातादिषु च नः पुनः ॥ ९३८ ।। कांस्याख्यलोहे स्यात् त्वेष मर्त्यजात्यन्तरे द्वयोः । मालकीशूद्भजेऽयोक्तो मल्लो योधे परैः पुमान् ॥ ९३९ ।। बलीयःपुरुषे त्वन्यैः पात्रभेदे तु नृस्त्रियोः । मल्लो मल्ली च मल्ली तु मल्लिकापीठयोः स्त्रियाम् ॥ ९४० ॥ नृस्त्रियोर्धारणे मल्लो मला चेति द्वयोः पुनः । व्रात्यपूर्वक्षत्रियाजे व्रात्याज्जात्यन्तरे नृणाम् ॥ ९४१ ॥ महः पुंम्युत्सवे स्त्री तु मही वाचि गवि क्षितौ । सज्जनस्तु नदाभेदेऽप्याह द्विवचनेन तु ॥ ९४२ ॥ द्यावापृथिव्योरानासीद् महत्वार्योपजीविनि । त्रिर्मङ्गलम्य पठितर्येके मङ्खा तु मङ्गले ॥ ९४३ ।। स्त्री मङ्गं त्वस्त्रियां नावः शिरस्यक्ली तु मङ्गने । मङ्गनं गमनं विद्यादथ सर्वरसाग्रके ॥ ९४४ ॥ मण्डमस्त्री स्त्रियां मण्डी *यागुल्यां मण्डने पुनः । नृस्त्री मण्डाऽथ ना रश्मौ की तून्मानान्तरे भवेत् ।। ९४५ ।। पञ्चमापे मतं तु क्ली स्यादाकृतेच्छयोस्तथा । ज्ञाने च वाञ्छिते तु त्रिआयमानेऽथ मत्तवाक् ॥ ९४६ ।।
१. 'ट्य' क. ग. घ. पाठ:.
२. 'स्त्व' क. ख. ग. घ. पा.
• 'प्वागुली मण्डिका समे' (पु. १६५. लो. ७८) इति तु वैजयन्ती।