________________
रोगिमृत्युविज्ञाने पद्रवादौ जन्मप्रभृतिजायमानेषु रोगेषु च नातिव्याप्तिः । ननु अन्तिमपदोपादानं किमर्थम् ? चिकित्सानुपशमनीयत्वे सति देहमात्राश्रितत्वमितीयतैवेष्टसिद्धेरिति चेन्न, विशेषणानां विशेष्यद्वारैव क्रियान्वयित्वाद्विशेष्यस्योपादानस्यावश्यकत्वादिति ।.
नन्वत्र पूर्वमरिष्टप्रकरणमेव कथमुच्यते ज्वरस्य जन्मादौ निधने च विद्यमानत्वेन प्राधान्यादिति चेच्छणु । प्रवृत्तौ कृतिसाध्यत्वप्रकारकमिष्टसाधनताज्ञानमेव कारणं भवति । अयं भावः, इदं मत्कृतिसाध्यम्। इदं मदिष्टसाधनमित्युभयविधप्रकारज्ञाने प्रवृत्तिदर्शनात् । अत एव चन्द्रमन्थनादौ कृतिसाध्यत्वाभावादमृतानयनादौ प्रवृत्तिर्न भवति । कृतिसाध्यत्वाच्च इष्टसाधनत्वाभावाज्जलताडनादौ प्रवृत्तिर्न भवति । एवमेव ज्वरादिरोगिणश्चिकित्साकरणेऽपि किमस्य रोगिणो रोगनिवृत्तिमत्कृतिसाध्या न वेति पर्यालोचनायामरिष्टज्ञानमावश्यकम् । अरिष्टावलोकनानन्तरमेव निवृत्तिः तदभावाच्च प्रवृत्तिर्भविष्यति । चिकित्साकरणानन्तरमपि कालान्तरेण जायमानस्यारिष्टस्यावगमादियता कालेनास्य मृत्युभविष्यतीति कथनाच्चिकित्सायास्त्यागाच्च सूयशःप्राप्तिरेव । अतोऽरिष्टानि पूर्वमुच्यन्ते । * अधीत्येति । वाग्भट, भावप्रकाश, सुश्रु त और चरक को पढ़ कर एवं कतिपय स्थानों में अनुभव करके मरण-ज्ञान को अर्थात् अरिष्टज्ञान को कहता हूँ। तात्पर्य यह है कि-'चरके चतुरो नास्ति वाग्भटे नापि वाग्भटः। सुश्र तो न श्रु तो येन स वैद्यो यमकिङ्करः' इति ।
चरकोक्त अरिष्टलक्षण__ चिकित्सामिति । चिकित्सा को अतिक्रमण कर गये हों, अर्थात् जिन चिह्नों का वातपित्तकफादिकों से सम्बन्ध न हो, परं तु तज्जन्यदोष जिस चिह्न को उत्पन्न कर देते हैं, वह चिह्न अरिष्ट कहाता है ॥२॥
फलादुत्पद्यते पूर्व पुष्पं भवति तत्फलम्।
न च पुष्पमनात्य फलं क्वापि विलोक्यते ॥४॥ फल से प्रथम पुष्प होता है और फिर वही पुष्प फल हो जाता है, विना फूल के फल कभी नहीं होता है ॥ ४ ॥