________________
प्रथमोऽध्यायः णमुच्यते किन्तु मरणाख्यापकत्वस्य, मरणस्य निश्चयेन बोधकत्वमिति तदर्थः । एवं च एतच्चिह्नदर्शनेन इयता कालेनावश्यमस्य मृत्युभविष्यतीति शब्दार्थः, एवमपि नियतपदं व्यर्थमेव, तस्याव्यावर्तकत्वात्। किञ्च नियतमरणाख्यापकं लिङ्गमरिष्टमित्युच्यमाने वातपित्तकफाश्रयीभूतोपद्रवाणामरिष्टत्वापत्तेः, एतेषामपि यथाकथंचिन्मरणाख्यापकत्वात्। नचोपद्रवाणां नैयत्येन मरणाख्यापकत्वं नास्तीति वाच्यम्, उपद्रवाणां मरणजनकतया तदनाख्यापकत्वात्, इति चेत्र, एकस्योपद्रवस्य नियतमरणाख्यापकत्वं न भवेत्, परं तु उपद्रवसमुदायस्य मरणाख्यापकत्वमस्त्येव । यथा यक्ष्मिणः क्षीणबलत्वे सति कासश्वासारुच्याद्य कादशोपद्रवाणां नियतमरणाख्यापकत्वादतिव्याप्त्यापत्त:। किञ्च नियतमरणजनकत्वे यथा कथंञ्चिन्मरणाख्यापकत्वादतिव्याप्त्यापत्त श्चेति दिक । ___तस्मात् चिकित्सानुपशमनीयत्वे सति दोषजन्यदेहमात्राश्रितलिङ्गत्वमरिष्टत्वमिति सुसंपन्न लक्षणमवगन्तव्यम् । पदकृत्यमाह । आद्यपदोपादानात् उपद्रवेषु चस्रोगे च नातिव्याप्तिः । ननूक्तमेव भवता राजयक्ष्मणि उपद्रवाणां चिकित्सानुपशमनीयत्वेन नियतमरणाख्यापकत्वमस्त्येवेति चेन्न अस्मदभिप्रायापरिज्ञानात्, नह्यस्माभिर्यावद्रोगेषु उपद्रवाणामनुपशमनीयत्वं मरणाख्यापकत्वं वा मन्यते राजयक्ष्मिण्यपि क्षीणबलस्य वमनविरेचनाद्यभावाज्जायमानैकादशोपद्रवाणां दुश्चिकित्स्यतया यक्ष्मिणोऽसाध्यत्वम, तेन मरणाख्यापकत्वमिति त्वन्यत । किञ्च तत्रैव यावदुपद्रवाणां चिकित्सानुपशमनीयत्वं नास्ति, किंतु कस्यचिदुपद्रवस्योपशमदर्शनादिति दिक् । दोषजन्येत्युपादानाच्छभसूचकभुजचक्षुषोः स्फुरणे, द्रव्यप्राप्तिसूचकसक्थिश्यामतायां च नातिव्याप्तिः । देहमात्राश्रितेत्युपादानादुपद्रवसमुदाये नातिव्याप्तिः । ननु उपद्रवाणां चिकित्सानुपशमनीयत्वं नास्तीति चेन्न, अपर्याप्त्या चिकित्सोपशमनीयत्वेऽपि पर्याप्त्या चिकित्सानुपशमनीयत्वात्, अर्थात् कस्मिश्चिदेकस्मिन् रोगे जायमानस्योपद्रवसमुदायस्य चिकित्सानुपशमनीयत्वात्समुदायेऽतिव्याप्तेः । वस्तुतस्तु महाश्वासादौ शापादिना जायमानो