________________
रोगिमृत्युविज्ञाने
चिकित्सां समतिक्रान्ताः केवलं देहमाश्रिताः । लिङ्गं कुर्वन्ति यद्दोषास्तदरिष्टं प्रचक्षते ॥ ३ ॥
तत्रादावरिष्टलक्षणं विचार्यते । किन्नामारिष्टत्वमिति चेदुच्यते । 'चिकित्सां समतिक्रान्ताः केवलं देहमाश्रिताः, लिङ्ग ं कुर्वन्ति यद्दोषास्तदरिष्टं प्रचक्षते' एवं च चिकित्साविषयानधिकरणत्वे सति वातपित्तकफाश्रयीभूतज्वरादिजनितदेहमात्राश्रितलिङ्गत्वमरिष्टत्वम् ।
।
यत्त ु नियतमरणाख्यापकं लिङ्गमरिष्टम्, यथा हिक्काश्वासादय इत्युक्तं केनचित्तदसत् । हिक्काश्वासादीनामुपद्रवरूपतया नियतमरणाख्यापकत्वाभावात् । क्वचिन्मरणजनकत्वेऽपि अनुगतरूपतया हिक्काश्वासादीनां तथात्वाभावात् । किश्व हिक्काश्वासादिरूपारिष्टतया जायमाने मृत्यौ मृत्युदिनानामज्ञानात्तज्ज्ञानस्यानुपयोगाच्च । क्वचिदुपद्रवतया जायमाने हिक्काश्वासादौ रोगिणस्त्यागे तद्रोगोपशमाच्च दुर्यश:प्राप्तेश्च । अपि च यक्ष्मादौ श्वासादीनामुपद्रवस्वरूपतयैव प्रदर्शनात् । किञ्च मरणानन्तरमेव नैयत्येन मरणाख्यापकत्वं निश्चीयते इति तदपि न । किमत्र पूर्वं निश्चयेन मरणाख्यापकत्वं तल्लिङ्गस्योच्यते उत मरणानम्तरं तल्लिङ्ग ं मरणजनकं निश्चीयते । आद्य तु न विवादः । परं तु भवदुक्तरीत्या तज्ज्ञानस्यासमर्थनात् । द्वितीयपक्षे च मरणानन्तरं तज्ज्ञानस्याकिञ्चित्करत्वात् । ननु व्यवहारेण तत्र तत्रारिष्टावलोकनान्मरणजनकताया निश्चयो भविष्यतीति चेन्न, तत्तद्विधानामरिष्टानां तत्तद्रोगेषु निश्चयकरणे बहुतरकालस्यावश्यकत्वादन्तरैव दुर्यशः प्राप्त्यापत्त ेः, तथा च सति रोगिणां भवदुक्तौषधादौ प्रवृत्तिरेव न स्यात् । गुरुपरंपरयेति चेर्त्तार्ह तल्लक्षणं तज्ज्ञानाय वक्तव्यमेव । किञ्चा रिष्टज्ञानमन्तरा किमयं केनापि मदीयदोषेण मृतः, उत रोगप्रबलतयेति संशयोऽपि स्यात् । अपि च भवदुक्तलक्षणे नियतपदस्याव्यावर्तकत्वानरर्थक्यमपि स्यात् न खलु नियतमनियतं वा मरणमुपलभ्यते इति चेन्न, अस्मदभिप्रायापरिज्ञानात । नह्यस्माभिर्नियतमिति मरणस्य विशेष