________________
CONTRAKARRAOKARSIKARAOKSAKAKAKKASORROREAKKARKKHORTAIKOKARORAKERSONAKERSONSORRORICROCKSKIOKSORROKAKKKAKKKAKKIKKOKAKKKHOKKRKKSIKSOREKOKAKKKKKAKKKKKRKOORXXXKAREKAS મળતો. એટલે, નિરવચ્છિન્નાધિકરણતાના આશ્રયમાં હેતુ-અધિકરણતા સામાન્યનો અભાવ ન મળવાથી અતિવ્યાપ્તિ ન આવે.
माथुरी : अन्ये तु हेतुतावच्छेदकसम्बन्धावच्छिन्नहेतुतावच्छेदकावच्छिन्नास्वाधिकरणताश्रयवृत्ति यन्निरवच्छिन्नाधिकरणत्वं । तदवृत्तिनिरुक्तसाध्याभावत्वविशिष्टनिरूपितयथोक्तसम्बन्धावच्छिनाधिकरणतात्वकत्वमिति विशेषणविशेष्यभावव्यत्यासे तात्पर्यम्, स्वपदं हेतुपरम्, इत्थं च कपिसंयोगाभाववान् सत्त्वात् कपिसंयोगिभिन्नं गुणत्वादित्यादावपि नाव्याप्तिरित्याहुरिति संक्षेपः ।।
चान्द्रशेखरीया : अथ अन्ये तु प्रथमलक्षणं इत्थं व्याचक्षन्ते ।
हेतुतावच्छेदकसंबंधावच्छिन्न-हेतुतावच्छेदकधर्मावच्छिन्नहेतु(स्व)-अधिकरणता-आश्रयवृत्तिः या निरवच्छिन्ना अधिकरणता । तस्यां अधिकरणतायां अवृत्ति यत् निरुक्तसाध्याभावत्वविशिष्टनिरूपितयथोक्तसंबंधावच्छिन्नाधिकरणत्वम् । तस्य निरुपके हेतौ, तादृशाधिकरणतात्वकत्वम् व्याप्तिः ।
"पर्वतो वह्निमान् धूमात्' इति अत्र संयोगावच्छिन्न-धूमत्वावच्छिन्न-धूमस्य अधिकरणतायाः आश्रयो महानसादिः । तस्मिन् वृत्तिमती निरवच्छिना अधिकरणता वढ्यादेः । तस्यां अधिकरणतायां वह्नि-अभावत्वविशिष्टवह्नि-अभावनिरूपित-स्वरूपसंबंधावच्छिन्नाधिकरणतात्वं नास्ति । अतः तादृशाधिकरणतात्वकत्वं धूमे वर्तते । इति लक्षणसमन्वयः ।।
'धूमवान् वहनेः' इति अत्र संयोगावच्छिन्न-वह्नित्वावच्छिन्नवह्निः अधिकरणतायाः आश्रयो अयोगोलकोऽपि वर्तते, अतो लक्षणसमन्वयाभावात् नातिव्याप्तिः । ___ अत्र केवलं हेतु-अधिकरणतायां अवृत्तिः इत्यादि एव वक्तव्यम् किं हेतु-अधिकरणताश्रयवृत्तिअधिकरणता....इत्यादि विवक्षणेन इति न शक्यम् यतो, हेत्वधिकरणताश्रयवृत्ति-अधिकरणता न हेतोः ग्राह्याः । अपि तु यस्य कस्यापि । अर्थात् यदि साध्याभावस्य अधिकरणता मीलति । तर्हि सापि गृह्यते । अतो अत्र प्रथमद्वितीययोः अधिकरणतयोः भिन्नतया न पुनरुक्तिः । तत्त्वं अनन्तरं एव स्कुटीभविष्यति । __'केचित् तु' कल्पे साध्याभावत्वविशिष्टनिरूपिताधिकरणता विशेषणघटकीभूता आसीत् । हेत्वधिकरणता विशेष्यघटकीभूता । 'अन्ये तु' कल्पे हेत्वधिकरणता विशेषणघटकीभूता आसीत्, साध्याभावाधिकरणता विशेष्यघटकीभूता आसीत्, इति अनयोः लक्षणयोः मध्ये विशेषः अस्ति ।
न केवलं एतावदेव । अपि तु 'केचित्तु' कल्पे 'कपिसंयोगाभाववान् सत्त्वात्' इति अत्र केवलान्वयिसाध्यकेलक्षणसमन्वयाभावात् अव्याप्तिः अस्ति । अत्र कल्पे साऽपि निरस्ता । तथा हि समवायावच्छिनसत्तात्वावच्छिन्नसत्तायाः अधिकरणता द्रव्य-गुण-कर्मषु । तत्र गुणे कपिसंयोगाभावाभावस्य कपिसंयोगस्य अधिकरणता एव नास्ति, किन्तु कपिसंयोगाभावादीनां निरवच्छिन्ना अधिकरणता अस्ति। कपिसंयोगवति वृक्षादौ च यद्यपि कपिसंयोगाभावाभावस्य-कपिसंयोगस्य शाखावच्छेदेन अधिकरणता अस्ति।
conommeORONOKOKOREAKIROKKAKKARIORSONAamacROMORROncommonomONORMONOARKE0000000000000000000000RROROSORRORAKAKKARKEKORocoremRRIOR
વ્યાતિપંચક ઉપર ચાલોખરીયા નામની સરળ ટીકા ક coommonomRIAOROROKARIRIKARAOKERMSROOMORRORSRORSCORSRORORSCORROROROMORRRRRRRRRORORSRORSRARORISARORORSRIRARIRIROMORRKEKORAKARORRORO80