________________
पत्त्वे सात” त्यो ४२वो. ___ माथुरी : केचित्तु निरुक्तसाध्याभावत्वविशिष्टनिरूपिता या विशेषणतासम्बन्धेन यथोक्तसम्बन्धेन वा निरविच्छिन्नाधिकरणता तदाश्रयव्यक्त्यवर्तमानं हेतुतावच्छेदकसम्बन्धावच्छिन्नयद्धर्मावच्छिन्नाधिकरणत्वसामान्यं तद्धर्मवत्वं विवक्षितम् । धूमवान् वढेरित्यादौ पर्वतनिष्ठवह्नयधिकरणताव्यक्तेधूमाभावाधिकरणाऽवृत्तित्वेऽपि अयोगोलकनिष्ठवल्यधिकरणताव्यक्तेरतथात्वान्नातिव्याप्तिरित्याहुः ।।
चान्द्रशेखरीया : अत्र केचित् प्रथमलक्षणं इत्थं व्याचक्षते । निरुक्तसाध्याभावत्वविशिष्टनिरूपिता या विशेषणताविशेषसंबंधेन निरुक्तसंबंधेन वा निरवच्छिन्ना अधिकरणता । तदाश्रये वृत्तित्वाभाववत् हेतुतावच्छेदकसंबंधावच्छिन्नयधर्मावच्छिनहेतु-अधिकरणता सामान्यम् । तद्धर्मवत्त्वम् व्याप्तिः ।। ___ 'वहिनमान् धूमात्' इति अत्र वह्नि-अभावनिरूपिता स्वरूपसंबंधेन निरवच्छिन्ना अधिकरणता, भूतलादौ । तस्मिन् संयोगावच्छिन्नधूमत्वावच्छिनधूमाधिकरणतासामान्यं न वर्तते । वृत्तिताभाववान् इत्यर्थः । तथा च तळूमत्वधर्मवत्वम् धूमे अस्ति इति लक्षणसमन्वयः । ___"धूमवान् वहनेः" इति अत्र धूमाभावनिरूपिता स्वरूपसंबंधेन निरवच्छिन्ना अधिकरणता अयोगोलकेपि वर्तते । तत्र संयोगावच्छिन्न-वह्नित्वावच्छिन्न-वह्नि-अधिकरणताऽपि वर्तते । यद्यपि, महानसादावपि तादृशी वह्निअधिकरणता अस्ति । तस्याः अधिकरणतायाः तु अयोगोलके अभावः एव । किन्तु तादृशी वह्नि-अधिकरणता अयोगोलकनिष्ठाऽपि अस्ति । तस्याः अधिकरणतायाः धूमाभाववति गोलके अभावो नास्ति, अतो अधिकरणतासामान्यं न अयोगोलके वृत्तिता-अभाववत् मीलति । अतो न अतिव्याप्तिः ।
एवं अन्यत्रापि यथासंभवं एतत्लक्षणं उह्यम् । पूर्वं बहुशः निरूपितत्वात् नेह प्रतन्यते । ચાન્દ્રશેખરીયા : કેટલાંકો આ પ્રમાણે પહેલું લક્ષણ માને છે.
નિરુક્તસાધ્યાભાવત્વવિશિષ્ટનિરૂપિતા યા વિશેષણતાવિશે પસંબંધેન યથોક્તસંબંધેન વા નિરવચ્છિન્નાધિકરણતા, સદાશ્રયવ્યક્તિ-અવૃત્તિ (વૃત્તિતા અભાવવાળા) હેતુતાવચ્છેદક સંબંધાવચ્છિન્નયધર્માવચ્છિન્નાધિકરણત્વસામાન્યમ્ તદ્ધર્મવત્વમ્ વ્યાપ્તિઃ
વનિમાનું ધૂમાતુ'માં વહિન-અભાવત્વવિશિષ્ટ વહિન અભાવથી નિરૂપિત એવી સ્વરૂપસંબંધેન નિરવચ્છિન્ના અધિકરણતા ભૂતલાદિમાં છે. અને, તે ભૂતલમાં સંયોગાવચ્છિન્ન ધૂમતાવચ્છિન્નાધિકરણતા નથી જ રહેતી. માટે, લક્ષણ સમન્વય થઈ જાય.
ધૂમવાનું વહનેઃ' માં ધૂમાભાવત્વવિશિષ્ટ ધૂમાભાવથી નિરૂપિત એવી સ્વરૂપસંબંધથી નિરવચ્છિન્ના અધિકરણતા તો ભૂતલ-અયોગોલણાદિમાં પણ છે. તેમાં, ભૂતલાદિમાં તો વનિતાવચ્છિન્નાધિકરણતાનો અભાવ મળી જાય છે. પણ, અયોગોલકમાં વનિત્વાવચ્છિન્નાધિકરણતા રહેલી હોવાથી તેનો અભાવ નથી
વ્યાતિપંચક ઉપર ચાન્દ્રશેખરીયા નામની સરળટીકા ૦ ૫