________________
दीधिति:१८
gummmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm
अभावप्रतियोगितावच्छेदकसम्बन्धरूपः प्रसिद्धः, तेषां मते गगनं वृत्यनियामकसंयोगेन द्रव्यत्वादिव्यापकं भवति" - इति । अयम् च अर्थः न समीचीनः । यतो ये केचित् वृत्यनियामकसंयोगं प्रतियोगितावच्छेदकत्वेन न स्वीकुर्वन्ति । तेऽपि संयोगत्वेन संयोगसामान्यं वृत्यनियामकवृत्तिनियामकसंयोगभेदभिन्नं प्रतियोगितावच्छेदकं स्वीकुर्वन्त्येव, ते तु केवलं वृत्यनियामकसंयोगं वृत्यनियामकसंयोगत्वेन धर्मेणैव प्रतियोगितावच्छेदकं न स्वीकुर्वन्ति । तथा च तेऽत्र शङ्खां कर्तु अर्हन्ति । यत् – भवद्भिः संयोगस्याभावप्रतियोगितावच्छेकसम्बन्धत्व-मते गगनस्य वृत्यनियामकसंयोगेन द्रव्यत्वादिव्यापकत्वं प्रतिपादितं । किन्तु तन्न युक्तम् । यतः वयमपि वृत्यनियामकसंयोगे वृत्यनियामकसंयोगत्वेन प्रतियोगितावच्छेदकत्वं निषिध्यमाना अपि "संयोगः अभावप्रतियोगितावच्छेदकः" इति स्वीकुर्मः । किन्तु तथापि न गगनं वृत्यनियामकसंयोगेन द्रव्यत्वादिव्यापकं भवति । तथा हि-संयोगेन घटाभावो यदि लक्षणघटत्वेन गृह्यते, तदा तु तस्य प्रतियोगिता संयोगत्वविशिष्टसंयोगावच्छिन्ना, वृत्यनियामकसंयोगत्वविशिष्ट वृत्यनियामक-संयोगावच्छिन्ना नास्ति, अतो न सा ग्रहीतुं शक्या। साध्यतावच्छेदक-सम्बन्धावच्छिन्नप्रतियोगितायाः एव लक्षणघटकत्वेनाभिधानात् । यदि च वृत्यनियामकसंयोगेन घटाभावो गृह्यते, तदापि तत्प्रतियोमिता न वृत्यनियामकसंयोगत्वविशिष्टेन वृत्यनियामकसंयोगेनावच्छिन्ना, तादृशसम्बन्धस्य प्रतियोगितावच्छेदकत्व-अस्वीकारात् । इत्थं च कस्या अपि प्रतियोगितायाः लक्षणाघटकत्वात् लक्षणसमन्वयो न संभवतीति न संयोगस्याभावप्रतियोगितावच्छेदकसम्बन्धत्वेऽपि गगनस्य द्रव्यत्वादिव्यापकत्वं संभवतीति ।
तस्मात् दीधितिकारेण संयोमस्य... इत्यनुक्त्वा संयोगमात्रस्य.... इत्युक्तम् । तस्थार्थस्तु अयम् - संयोगमात्रस्य = वृत्तिनियामक-संयोगत्वेन वृत्ति-नियामकसंयोगस्य, वृत्यनियामकसंयोगत्वेन वृत्यनियामकसंयोगस्य च प्रतियोगितावच्छेदकसम्बन्धत्वे इति – तथा च येषां मते वृत्यनियामकसंयोगत्वविशिष्टस्य वृत्यनियामकसंयोगस्य प्रतियोगितावच्छेदकत्वं प्रसिद्धं, तेषां मते एव गगनं द्रव्यत्वादिव्यापकं भवति । यूयं तु न वृत्यनियामकसंयोगत्वविशिष्टस्य वृत्यनियामक-संयोगस्य प्रतियोगितावच्छेदकत्वं स्वीकुरुथा अतो भवन्मते तु गगनं द्रव्यत्वव्यापकं नैव भवति । किन्तु यथोदितमते एव भवति । तथाहि वृत्यनियामकसंयोगेन घटाभावो लक्षणघटको भवति, तत्प्रतियोगिता तु वृत्यनियामकसंयोगत्वविशिष्टेन वृत्यनियामकसंयोगेन साध्यतावच्छेदकसम्बन्धरूपेणावच्छिन्ना एव । अतः सा गृह्यते, तदनवच्छेदकं नु गगनत्वं इति लक्षणघटनात् गगनं द्रव्यत्वादिव्यापकं भवति । यदि हि वृत्यनियामकसंयोगत्वावच्छिन्नस्य वृत्यनियामकसंयोगस्य प्रतियोगितावच्छेदकत्वं न स्वीक्रियते, तदा तु साध्यतावच्छेदकतादृशसम्बन्धावच्छिन्नप्रतियोगिताकाभावस्यैव अप्रसिद्धत्वात्, लक्षणसमन्वयासंभवात् न गगनं पृथ्वीत्वादिव्यापकं भवितुमर्हति इति उक्तप्रायम् । ____ अधुना दीधित्यां दृश्यमानस्य वृत्तिनियामकपदस्य प्रामादिकत्वं प्रतिपादयामः । जागीदीशीटीकायां कुत्रापि वृत्तिनियामकपदस्य समुल्लेखोऽपि न कृतः, अतो ज्ञायते, यत् जगदीशस्य पुरस्तात् विद्यमानायां दीधित्यां तत्पदं नासीत् । एवं विवृत्तिटीकायामपि वृत्तिनियामकपदस्य समुल्लेखनं न कृतं, अतः तेषां पुरस्तादपि तत्पदं नासीत् इत्येव सिद्ध्यति । युक्तिस्तु इयम् । वृत्तिनियामकपदं विनैव सर्वस्य पदार्थस्य सुघटितत्वसंभवात् तत्पदं न
mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm0000000000000mmmmmmmmmmmmmmmm000
-
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૦૧