________________
दीधिति : १८
निवेश्यमेव। प्रत्युत तत्पदनिवेशे महत्यापत्तिः समापतेत् । तथा हि "मनुजमात्रः स्खलनास्पदं" इति लोकश्रुतिः प्रसिद्धा । तत्र मात्रपदेन मनुजस्यैव विभागाः सर्वे प्रतिपाद्यन्ते । यथा ब्राह्मणः क्षत्रियो वैश्यो शुद्रो वा सर्वेऽपि मनुजाः स्खलनास्पदानि भवन्ति । न तु अत्र मात्रपदेन मनुजत्वजातिरहितास्तिर्यगादयो गृह्यन्ते । अन्यथा "मनुजाः तिर्यञ्चो देवाश्च स्खलनास्पदानि भवन्ति" इति अर्थः स्यात् स तु न केषामपि मान्यः । अतो मात्रपदं यत्पदानन्तरं निविश्यते, तस्यैव सर्वे भेदा मात्रपदेन गृह्यन्ते । इत्थं च अत्रापि यदि 'वृत्तिनियामकसंयोगमात्रस्य ' . इति यदि उच्यते । तदा तु मात्रपदस्य वृत्तिनियामकसंयोगानन्तरं निविष्टत्वात् मात्रपदं वृत्तिनियामकसंयोगानां सर्वेषां संग्राहकं भवेत् । न तु वृत्यनियामकानां । एवं च "वृत्यनियामकानां अभावप्रतियोगितावच्छेदकसम्बन्धत्वे" इत्यर्थो न लभ्येत । तथा चानन्तरोक्तप्रकारेण गगनस्य द्रव्यत्वादिव्यापकत्वं न सिध्येत् । विवृत्तिटीकाकारेणापि मात्रपदेन यत् वृत्यनियामकसंयोगेन घटाभावग्रहणं विवक्षितं तदपि न घटेत, तथा च सर्वं असमञ्जसं भवेत् । अतो वृत्तिनियामकपदं प्रामादिकमेव मन्तव्यम् । तत्पदाभावे तु न कोऽपि दोषः । तथाहि संयोगमात्रस्य.... इति पदं शिष्टं भवति । तथा च मात्रपदं संयोगपदानन्तरमभिहितं सत् सर्वेषां संयोगानां वृत्तिनियामकानां वृत्यनियामकानां च संग्राहकं भवति । एवं च वृत्यनियामक संयोगस्य प्रतियोगितावच्छेदकसम्बन्धत्वमपि अनेन वाक्येन प्रतिपाद्यते, तथा च पूर्वोक्तक्रमेण घटद्यद्यभावमादाय लक्षणघटनात् गगनं द्रव्यत्वादिव्यापकं भवति । एवं च संयोगमात्रस्याभावप्रतियोगिता.... इत्येव पाठोऽस्माकं समीचीनः प्रतिभाति । विशेषार्थजिज्ञासुना समादरणीया नैयायिक श्रेष्ठाः इति अलं विस्तरेण । प्रकृतं प्रस्तुमः।
1
ननु येषां मते वृत्यनियामकसंयोगः प्रतियोगितावच्छेदको न भवति, तेषां मते नु गगनं नैव द्रव्यत्वव्यापकं भवतीति चेत् न साध्यतावच्छेदकसम्बन्धेन प्रतियोग्यसंबंधिहेतुसंबंधिवृत्यभावप्रति-योगितानवच्छेदकत्वं साध्यतावच्छेदके वाच्यम् इति यः द्वितीयः कल्पो अस्ति, तदनुसारेण तु वृत्यनियामकसंयोगस्य प्रतियोगितानवच्छेदकत्ववादिमतेऽपि गगनस्य द्रव्यत्वादिव्यापकत्वं संभवति । यतोऽत्र कल्पे साध्यतावच्छेदकसम्बन्धावच्छिन्ना प्रतियोगिता न प्रविष्टाऽस्ति । तथा च द्रव्यत्वाधिकरणे पर्वते संयोगेन घटस्याभाव:, साध्यतावच्छेदकेन वृत्यनियामकसंयोगेन घटात्मकप्रतियोगिसंबंधि पटादि भवति । तद्भिन्नं हेतुसम्बन्धी पर्वतः, तत्र घटाभावः, तस्य संयोगावच्छिन्ना प्रतियोगिता, तदनवच्छेदकं गगनत्वमिति लक्षणसमन्वयात् भवति गगनं द्रव्यत्वव्यापकम् ।
ननु विभुद्वयस्य परस्परं संयोगानङ्गीकारात् आत्मादौ द्रव्ये गगनं वृत्यनियामकसम्बन्धेनाऽपि न वर्तते । तत्र च द्रव्यत्वं हेतुरस्ति । तथा च द्रव्यत्वं गगनव्यभिचारि भवति । अतो न गगनं द्रव्यत्वव्यापकं संभवतीति चेत् अत एव दीधित्यां “पृथ्वीत्वादिव्यापकत्वमपि " इति पदमुपात्तं । तथा च गगनस्य द्रव्यत्वव्यापकत्वे संदिह्यमानेऽपि, तस्य पृथ्वींत्वव्यापकत्वमव्याहतमेव । तथा हि पृथ्वीत्वं न कस्मिन्नपि विभुद्रव्ये वर्तते । किन्तु पृथ्वीषु एव । तत्र सर्वत्र गगनं वृत्यनियामकसंयोगेन संबद्धमस्ति इति गगनं पृथ्वीत्वादिव्यापकमवश्यं भवति । न च तथापि जन्यपृथ्वीषु उत्पत्तिकालावच्छेदेन संयोगमात्रस्यैवाभावात् तत्र वृत्यनियामकसम्बन्धेनापि गगनं न संबद्धं भवति । एवं प्रलयकाले जन्यमात्रस्याभावात् संयोगानां च सर्वेषां जन्यत्वावच्छ्न्नित्वात्,
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦૦૨