________________
दीधिति:१८
mummmmmmmmmmmmmmmmmmmmmmmmmmmmp
परित्यज्य संबंधिपदनिवेशः आवश्यकः इति उक्तम् । एवं च अधुना गगनमपि वृत्यनियामकसंयोगेन द्रव्यत्वपृथ्वीत्वादिव्यापकं भविष्यति । अयं भावः । अधिकरणपदघटितलक्षणानुसारेण गगनं वृत्यनियामकसंयोगेन द्रव्यत्वादिव्यापकं न भवति । तथा हि द्रव्यत्वाधिकरणे पर्वते वृत्यनियामकसंयोगेन गगनमस्ति, अतो न तस्याभावो गृह्यते । किन्तु घटाभावः, स च यदि संयोमसामान्येन घटस्याभावो गृह्यते, तदा तु प्रतियोगितावच्छेदकसम्बन्धः संयोगः, तेन घटानधिकरणं हेत्वधिकरणं पर्वतः, तत्र वर्तमानः स एव घटाभावः, किन्तु तत्प्रतियोगिता साध्यतावच्छेदकवृत्यनियामकसंयोगावच्छिन्ना नास्ति, अतः न सा प्रतियोगिता गृह्यते । यदि हि वृत्यनियामकसंयोगेन घटाभावो गृह्येत, तदा तु प्रतियोगितावच्छेदकसम्बन्धः वृत्यनियामकसंयोगः, तेन सम्बन्धेन घटाधिकरणस्यैवाप्रसिद्धत्वात् प्रतियोग्यनधिकरण-हेत्वधिकरणस्यापि अप्रसिद्धिः, वृत्यनियामक-संयोगस्याधाराधेयभावनियामकत्वाभावात् न तेन सम्बन्धेन अधिकरणप्रसिद्धिरिति भावः । इत्थं च अधिकरणपदघटितलक्षणं न निरुक्तानुमाने संघटते । किन्तु अधुना तु संबंधिपदघटितमेव लक्षणं । तदनुसारेण तु गगनमपि द्रव्यत्वादिव्यापकं भवति । तथा हि वृत्यनियामकसंयोगेन घटसम्बन्धी घटसंयुक्तो वायुः । तद्भिन्नं हेत्वधिकरणं पर्वतः, तस्मिन् स अभावः, तस्य प्रतियोगिता वृत्यनियामकसंयोगात्मकेन साध्यतावच्छेदक सम्बन्धेनावच्छिन्ना अपि अस्ति । तदनवच्छेदकं गगनत्वं इति लक्षणघटनात् गगनं द्रव्यत्वाभावव्यापकं भवति । ___ अत्र दीधित्यां "वृत्तिनियामकसंयोगमात्रस्याभावप्रतियोगितावच्छेदकसम्बन्धरूपत्वे" इति पाठः दृश्यते, तत्र च ‘वृत्तिनियामक' इति पदं प्रामादिकं इति वयं मन्यामहे, तत्कारणं तु वक्ष्यामः । साम्प्रतं तु 'संयोगमात्रस्याभावप्रतियोगितावच्छेदकसम्बन्धरूपत्वे' इत्यस्य ग्रन्थस्य निरूपणं क्रियते ।
पूर्वपक्षः प्रश्नयति ननु वृत्यनियामकसंयोगसम्बन्धः प्रतियोगितावच्छेदको न भवति । तथा च अत्र अनुमाने कस्याप्यभावस्य प्रतियोगिता वृत्यनियामकसंयोगावच्छिन्ना न संभवति । तथा च साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगितायाः एव अप्रसिद्धत्वात् तद्घटितलक्षणमपि नात्र संजाघटीति इति कथं गगनस्य द्रव्यत्वव्यापकत्वं इति ।
तत्र दीधितिकारः समादधाति । संयोगमात्रस्य अभावप्रतियोगितावच्छेदकसम्बन्धरूपत्वे संयोगेन गगनादेरपि द्रव्यत्वव्यापकत्वं पृथ्वीत्वादिव्यापकत्वमपि च संभवतीत्यन्वयः । अस्य भावार्थस्त्वयम् येषां मते वृत्यनियामकसंयोगः प्रतियोगितावच्छेदकत्वेनाप्रसिद्धः, तेषां मते यद्यपि गगनं न द्रव्यत्वादिव्यापकं भवति । किन्तु येषां मते संयोगमात्रस्य वृत्तिनियामकसंयोगस्य वृत्तिनियामकसंयोगत्वेन वृत्यनियामकसंयोगस्य वृत्त्यनियामकसंयोगत्वेन च प्रतियोगितावच्छेदकत्वं स्वीक्रियते, तेषां मते तु प्रतियोगितावच्छेदकसम्बन्धेन घटानधिकरणपर्वतवृत्यभाव-प्रतियोगिताया: वृत्यनियामकसंयोगावच्छिन्नायाः प्रसिद्धत्वात् सा ग्रहीतुं शक्या, तदनवच्छेदकं गगनत्वमिति लक्षणघटनात् गगनमपि द्रव्यत्वादिव्यापकं वृत्यनियामकसंयोगेन भवत्येव।
अधुना "संयोगमात्रस्य"....इत्यत्र मात्रपदप्रयोजनं अभिधीयते । यदि हि संयोगस्याभावप्रतियोगिताहै वच्छेदकसम्बन्धरूपत्वे..... इति पाठो लिख्यते । तदा तु अयमर्थो भवति यत् – “येषां मते संयोगः
Kummmmmmmmmmmmmmmmmmmmmm
mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmB
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦૦