________________
दीधिति: १४
सम्बन्धः प्रविष्टस्तेन सम्बन्धेन यो हेतुमान्, तत्र वर्त्तमानत्वमभावस्य साध्यस्य च यादृशः सम्बन्धः प्रविष्टस्तत्सम्बन्धावच्छिन्नायाश्च प्रतियोगिताया अनवच्छेदकत्वं बोध्यम् ।
तेन- धूमसमवायिनिष्ठाभावस्य संयोगावच्छिन्नप्रतियोगितायाः, धूमसंयोगिनिष्ठाभावस्य च समवायावच्छिन्नप्रतियोगिताया अवच्छेदकत्वेऽपि वह्नित्वस्य-न क्षतिः ॥१४॥
जगदीशी - ग्राह्यसामानाधिकरण्य इति । — परामर्शविषयसाध्यसामानाधिकरण्ये इत्यर्थः। “सम्बन्धविशेषेणैव साध्य - साधनयोः सामानाधिकरण्य-ज्ञानादनुमितिस्तज्ज्ञानप्रतिबन्धकतयैव विरोधस्य हेत्वाभासत्वमिति" मतेनेदम् ।
I
चन्द्रशेखरीया : : ननु एवं तादृशाभावप्रतियोगितानवच्छेदकेन साध्यतावच्छेदकेनावच्छिन्नं यत्, तद् व्यापकं भवति इति सिद्धम्, तादृशव्यापकसामानाधिकरण्यं च हेतुनिष्ठं व्याप्तिः, हेतौ साध्यसामानाधिकरण्यं नाम साध्याधिकरणवृत्तित्वमेव, तस्मिन् द्वौ विभागौ । साध्याधिकरणं तदधिकरणवृत्तित्वं च । तत्र यदि येन केनापि सम्बन्धेन साध्याधिकरणं, तस्मिश्चं येन केनाऽपि सम्बन्धेन हेतोः वृत्तित्वं च स्वीक्रियेत, तदा कालिकेन वह्निमति पर्वते संयोगेन धूमः, संयोगेन वह्निमति पर्वते संयोगेन धूमः, संयोगेन वह्निमति पर्वते कालिकेन धूमः, समवायेन वह्निमति वह्न्न्यवयवे कालिकेन धूमः इत्यादयो बहवः आकाराः सामानाधिकरण्यज्ञानस्य संभवेयुः । तथा सति विरोधो न हेत्वाभासो भवेत् यतः साध्यतावच्छेदकसम्बन्धेन साध्यवति हेतुतावच्छेदकसम्बन्धेन हेतोः वृत्तिताऽभावः एव विरोधः, तद्विषयकं च ज्ञानं साध्यतावच्छेदकसम्बन्धेन साध्यवत्येव हेतुतावच्छेदकसम्बन्धेनैव हेतोः वृत्तितात्मक सामानाधिकरण्यज्ञानप्रतिबंधकं भवति । अनुमितितत्कारणान्यतरप्रतिबंधक ज्ञानविषयत्वं च हेत्वाभासत्वम् । तथा च विरोधः अनुमितिकारणतादृशसामानाधिकरण्यज्ञानप्रतिबंधकविरोधज्ञान विषयः भवतीतिहेत्वाभासत्वं प्रतिपद्यते, किन्तु अत्र तु सामानाधिकरण्ये सम्बन्धविशेषो न निवेश्यते । अतः तद्विरोधज्ञानं न प्रतिबंधकं भवति । नहि संयोगेन वह्निमति पर्वते संयोगेन धूमाभावः इति ज्ञानं कालिकेन वह्निमति पर्वते संयोगेन कालिकेन वा धूमवत्ताज्ञानं प्रति प्रतिबंधकं भवितुमर्हति । तथा च विरोधस्य हेत्वाभासत्वसिद्धयर्थं अवश्यं सम्बन्धविशेषेणैव तादृशसामानाधिकरण्यस्य द्वौ विभागौ स्वीकर्तव्यौ इति चेत् सत्यं अत एव दीधितिकारः सम्बन्धविशेषं प्रवेशयितुं ग्रन्थमारचयति । प्रथमं तावत् दीधितिग्रन्थस्य सामान्योऽर्थो निरूप्यते । ग्राह्यसामानाधिकरण्ये= परामर्शविषयीभूतसाध्यसामानाधिकरण्ये = हेतौ साध्याधिकरण - वृत्तितात्मके हेतोः = धूमादे: यादृशः सम्बन्धः प्रविष्टः=यद्धर्मावच्छिन्नः सम्बन्धः = संयोगत्वाद्यवच्छिन्नात्मकः संयोगसम्बन्धः प्रविष्टः तेन सम्बन्धेन यो हेतुमान्=संयोगत्वावच्छिन्नसंयोगेन यो धूमवान् पर्वतादिः, तत्र वर्तमानत्वमभावस्य बोध्यम् = तादृशपर्वते लक्षणघटकः अभावः ग्राह्यः । एवं ग्राह्यसामानाधिकरण्ये=वह्निव्याप्यधूमवान् पर्वतः इति ज्ञानविषयीभूते वह्नि-अधिकरणवृत्तितात्मके हेतुनिष्ठे सामानाधिकरण्ये साध्यस्य = वह्नेः, यादृशः = यद्धर्मावच्छिन्नः
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૦ ૩૫