________________
दीधिति: १३
तत्तद्धूमत्वावच्छिन्नाधिकरणता(व्यक्ति)भिरेवोपपत्तौ घूमत्वाद्यखण्डधर्मावच्छिन्नाधिकरणतायां
मानाभावात्,
- घूमादिसामान्याभावप्रतियोगितावच्छेदकं यद्धूमत्वादिकं तदवच्छिन्नाधिकरणत्वाप्रसिद्धावपि-‘धूमवान् वह्ने 'रित्यादौ नातिव्याप्तिः, -
धूमाधिकरणतत्तद्व्यक्ति भेदकूटवत्त्वमादायैव धूमसामान्याभावस्य प्रतियोगितावच्छेदकावच्छिन्नवैयधिकरण्यसम्भवादिति ध्येयम् ।
चन्द्रशेखरीया : ननु तथापि अत्रैव पूर्वं प्रतिपादितं यदुत "पर्वतीयधूमत्व-चत्वरीयधूमत्वादिअवच्छिन्नाः अधिकरणताः अवश्यमेव मन्तव्याः, किन्तु धूमत्वावच्छिन्नाधिकरणता न मन्तव्या" इति तथाचातिव्याप्तिर्भवति ‘धूमवान् वनेरित्यादौ । तथाहि अत्र साध्याभावः धूमाभावः, तस्य धूमनिष्ठप्रतियोगितायाः अवच्छेदकं धूमत्वं, तदवच्छिन्नस्यानधिकरणं हेत्वधिकरणं वक्तव्यं अस्ति, किन्तु धूमत्वावच्छिन्नाधिकरणता एव अप्रसिध्धा, अतो धूमत्वावच्छिन्नाधिकरणं न किञ्चिदस्ति, येन तद्भिन्नं हेत्वधिकरणं गृह्येत । तथा च न साध्याभावः लक्षणघटकोऽपि तु घटाद्यभावः, तस्य तादृशप्रतियोगितानवच्छेदकमेव साध्यतावच्छेदकं धूमत्वं इति अतिव्याप्तिः । यदि य धूमत्वावच्छिन्नाधिकरणतावत् घटत्वादिसामान्यधर्मावच्छिन्नाधिकरणता अप्रसिध्धा इति मन्यते, तदा तद्घटाभावमादाय लक्षणसमन्वयः कर्तव्यः इति चेत् न, यादृशप्रतियोगितावच्छेदकधर्मे तादृशप्रतियोगिताश्रयाधिकरणीभूतयत्यद्व्यक्तिनिष्ठाधिक रणतानिरुपक तानवच्छेदकत्वस्य अधिकरणतानिरुपकतानवच्छेदकत्वस्य च द्वयोरभावः तत्तदव्यक्ति भेदकूटवदेव हेत्वधिकरणं यादृशप्रतियोगितावच्छेदकावच्छिन्नानधिकरणत्वेन विवक्षितं बोध्यम् । धूमवान् वनेरित्यत्र धूमाभावप्रतियोगितावच्छेदकं धूमत्वं तादृशधूमनिष्ठप्रतियोगितायाः आश्रयो यो धूमः, तदधिकरणीभूता ये पर्वतचत्वरमहानसादयः, तेषु याः अधिकरणताः, तासां निरूपकाः ये पर्वतीयधूमादय:, तेषु वर्तमानानां निरुपकतानामनवच्छेदकत्वम् धूमत्वे धर्मेऽस्ति । यतो धूमत्वावच्छिन्नाधिकरणतायाः अप्रसिद्धत्वं । यदि हि तादृशी अधिकरणता प्रसिद्धा भवेत् तदा तु धूमनिष्ठायाः तादृशाधिकरणतानिरुपकतायाः अवच्छेदकं धूमत्वं भवेत्, किन्तु धूमत्वावच्छिन्नाधिकरणता न स्वीक्रियते, अतः तादृशानवच्छेदकत्वं धूमत्वेऽस्ति, किन्तु सामान्यतोऽधिकरणतानिरुपकतावच्छेदकत्वं धूमत्वे नास्ति इति एकस्याभावात् उभयस्याप्यभावो मीलितः । अत्र च ‘यद्यत्पदेन' पर्वत-चत्वरमहानसादयः एव गृहीताः, न त्वयोगोलकं, तस्य धूमाभाववत्वात् । तथा च यद्यत्पदगृहीतानां सर्वेषां भेदाः अयोगोलके वर्तते, अतः अयोगोलकं तत्तद्व्यक्तिभेदकूटवत् मीलितं । इत्थं च तदेवायोगोलकं यादृशप्रतियोगितावच्छेदकधूमत्वावच्छिन्नानधिकरणत्वेन लक्षणघटकं अभूत् । तस्मिन् धूमाभाव:, तत्प्रतियोगितावच्छेदकं धूमत्वमिति नातिव्याप्तिरिति भावः ।
ચન્દ્રશેખરીયા ઃ પૂર્વપક્ષ : આપણે આગળ જોઈ ગયા કે ધૂમત્વાવચ્છિન્નધૂમ-અધિકરણતા પ્રસિદ્ધ જ નથી. માત્ર પર્વતીયાદિધૂમત્વાવચ્છિન્નધૂમની અધિકરણતા જ પ્રસિદ્ધ છે. અને આમ હોવાથી ધૂમવાન્ વર્લ્ડ્સઃમાં અતિવ્યાપ્તિ આવશે, કેમકે ત્યાં હેત્વધિકરણ એવા અયોગોલકમાં ધૂમાભાવ લેશું. તો પ્રતિયોગિતાવચ્છેદક
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા ૭ ૨૦