________________
000000000000000000000000000000
0 0000000000000000000000000
दीधिति:१३ भावाधिकरणतानिरूपितस्वरूपसम्बन्धेन आत्मनि वर्तते एव । इति यादृशप्रतियोगितापदेन सा न ग्रहीतुं शक्या इति नाव्याप्तिः । ____ 'दव्यत्वाभाववान् सत्वात्' इति अत्र तु द्रव्यत्वाभावाभावः एव गृह्यते, तत्प्रतियोगितावच्छेदकः स्वरूपसम्बन्धः, तदवच्छिन्नः द्रव्यत्वाभावः, तदधिकरणता तु न सत्ताधिकरणे घटादौ वर्तते । किन्तु स्वरूपसम्बन्धावच्छिन्नस्य जातित्वाभावस्याधिकरणता एव स्वरूपसम्बन्धेन घटादौ वर्तते । एवं द्रव्यत्वाभावाभावस्य द्रव्यत्वाभावत्वावच्छिन्ना प्रतियोगिता यादृशप्रतियोगितापदेन गृह्यते, तदवच्छेदकं । द्रव्यत्वाभावत्वं, तदवच्छिन्नस्य द्रव्यत्वाभावस्याधिकरणता न निरूक्तस्वरूपसम्बन्धेन स्वरूपावच्छिन्नजातित्वाभावाधिकरणता निरूपितस्वरूपसम्बन्धात्मकेन घटादौ वर्तते इति अधिकरणतासामान्याभावो मीलितः । तथा र च तादृशप्रतियोगितापदेन द्रव्यत्वाभावत्वावच्छिना स्वरू पावच्छिन्ना एव प्रतियोगिता ग्रहीतुं शक्येत, तदवच्छेदकं द्रव्यत्वाभावत्वमिति नातिव्याप्तिः । ___ यद्यपि अत्र यत्प्रतियोगितावच्छेदकसम्बन्ध... इति उक्तं । तथापि स सम्बन्धः साध्यतावच्छेदकसम्बन्ध एव ग्राह्यः अन्यथा समवायेन वन्यभावस्य वह्निनिष्ठा या प्रतियोगिता, तदवच्छेदक: समवायसम्बन्धः, तेनावच्छिन्नः वह्निः न पर्वते वर्तते, अतः समवायावच्छिन्ना पर्वतत्वजातिः एव गृह्येत, तदधिकरणता स्वरूपेण पर्वते वर्तते। अथ वह्नित्वावच्छिनप्रतियोगितावच्छेदकम् वह्नित्वं, तदवच्छिन्नस्य वहनेः अधिकरणता यद्यपि पर्वतेऽस्ति, तथापि साऽधिकरणता संयोगावच्छिन्नवह्नि-अधिकरणतानिरूपितस्वरूपसम्बन्धेन पर्वते अस्ति । प्रतियोगितावच्छेदकसमवायावच्छिन्नपर्वतत्वाधिकरणतानिरूपितस्वरूपसम्बन्धेन निरूक्तसम्बन्धात्मकेन तु तस्याः अधिकरणतायाः पर्वते अभाव एव वर्तते । इत्थं च समवायेन सम्बन्धेन वह्नित्वावच्छिन्ना प्रतियोगिता तादृशप्रतियोगितापदेन ग्रहीतुं शक्या । तदवच्छेदकमेव वह्नित्वं इति अव्याप्तिः भवेत् । अथवा वन्यभावप्रतियोगितावच्छेदकसमवायावच्छिन्नो यदि वह्निरेव गृह्येत, तदापि तस्याधिकरणता न पर्वतेऽपि तु वढ्यवयवेष्वेव । तथा च तादृशाधिकरणतानिरूपितस्वरूपसम्बन्धेन वह्नित्वावच्छिन्नवह्नि-अधिकरणताऽपि तत्रैव वन्यवयवेष्वेव वर्तते, न तु पर्वते इति एवमपि अव्याप्तिः भवत्येव । अतः प्रतियोगितावच्छेदकः सम्बन्धः साध्यतावच्छेदकसम्बन्धरूपो ग्राह्यः । अर्थात् साध्यतावच्छेदकसम्बन्धावच्छिनप्रतियोगिताक: एवाभावः लक्षणघटकत्वेन ग्राह्यः । तथा च न समवायावच्छिन्नप्रतियोगिताकोऽभावः लक्षणघटकत्वेन ग्रहीतुं शक्यः । तस्य साध्यतावच्छेदकसम्बन्धावच्छिन्नप्रतियोगिकत्वाभावात् । किन्तु संयोगेन घटादेरभावः एव गृह्यते। संयोगेन वढेरभावो यदि गृह्यते, तदा तु तादृशाधिकरणतासामान्यस्य अभावो न हेत्वधिकरणे भवति इति स न गृह्येत, अतः घटाभावमादायैव लक्षणसमन्वयात् नाव्याप्तिसंभवः । न चैतद् स्वमनीषिकाविजृम्भितमात्रमेव । जागदीशीग्रन्थस्यैवात्र प्रमाणत्वात् । तथा हि जागदीश्यां "तत्पर्वतीयवह्निसंयोगेन वह्निमान् धूमात्" इति अत्र लक्षण-समन्वयप्रतिपादनार्थं इयं पङ्क्तिः लिखिता ।
'घटत्वावच्छिन्नाधिकरणतासामान्यस्यैव तत्तद्वह्निनिरूपितसंयोगसम्बन्धावच्छिन्नाधिकरणतानिरूपितस्वरूपसम्बन्धे नाभावस्य हेतुमति सत्वेन तादृशसम्बन्धेन घटाद्यभावस्यैव प्रतियोगिव्यधिकर-णत्वसंभवात्-इति अत्र 'तत्तद्वह्निनिरूपितसंयोगसम्बन्धावच्छिन्न'.... इति अनेन
40000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000000Đ
00000000000000000000000
BodosdaddddddddddddddddddoodaaaaaaaaaaaaaaaaaaaaaaaaaGOOOOOOOOODaaaaaaaaaaaaaaaaaaaaaadddddddddddddddddddandadagadaवववववववव addadomaddTOOOOOOO
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા • ૧૬