________________
दीधिति:१३
तादृशी अधिकरणता तत्पर्वते वर्तते । अथ तादृशघटाभावस्य घटत्वावच्छिन्ना घटनिष्ठा प्रतियोगिता यादृशप्रतियोगितापदेन गृह्यते । तदवच्छेदको धर्मः घटत्वं, तदवच्छिन्नाश्च घटाः न पर्वते वर्तन्ते, किन्तु भूतलादौ, अतः भूतले घटत्वावच्छिन्नघटाधिकरणता स्वरूपेण वर्तते । एतासां सर्वासां घटाधिकरणतानां तत्पर्वते तु तादृशस्वरूपेण अभाव एव वर्तते । यद्यपि घटत्वावच्छिन्नघटः कालिकेन तत्पर्वते वर्तते इति तत्पर्व घटत्वावच्छिन्नघटाधिकरणता स्वरूपेण विद्यते एव । तथापि सा अधिकरणता कालिकावच्छिन्नघटाधिकरणतारूपा, न तु तत्पर्वतीयवह्निसंयोगावच्छिन्नाधिकरणतारूपा, अतः तत्पर्वतीयवह्निसंयोगावच्छिन्नाधिकरणतानिरूपितस्वरूपसम्बन्धेन तु कालिकावच्छिन्नघटाधिकरणतानां पर्वते अभाव एव वर्तते । तथा. च तत्पर्वतीयवह्निसंयोगावच्छिन्नायाः घटत्वावच्छिन्नायाः घटनिष्ठप्रतियोगितायाः अनवच्छेदकं एव वह्नित्वं इति लक्षणघटनात् नाव्याप्तिः। ____ अत्र लक्षणे यदि सामान्यपदं नोच्यते तदा तु संयोगेन वह्निमान् धूमात् इति अत्र अव्याप्तिः भवेत् तथाहि । संयोगेन वह्नि-अभावस्य प्रतियोगिता वह्निनिष्ठा वर्तते । तत्प्रतियोगितावच्छेदक: संयोगसम्बन्धः, तदवच्छिन्नः वह्निः, तदधिकरणता धूमवति पर्वते वर्तते । तथा च पर्वते संयोगावच्छिन्नवह्निअधिकरणतानिरूपित-स्वरूपसम्बन्धेन तादृशी अधिकरणता वर्तते । अथ वह्नयभावस्य वह्नित्वावच्छिन्ना प्रतियोगिता यादृशप्रतियोगितापदेन गृह्यते, तदवच्छेदकं वह्नित्वं, तदवच्छिन्नाः महानसीयवह्नि-पर्वतीयवह्नि चत्वरीयवह्नयः, तत्र महानसीयवह्नि-अधिकरणता महानसे वर्तते । तथा च निरुक्तस्वरू पसम्बन्धेन महानीसयवह्नि-अधिकरणतायाः अभावः एव पर्वते वर्तते । एवं च हेत्वधिकरणे वन्यभाबमादाय अधिकरणापाऽभावः प्रसिद्धः । तथा च संयोगावच्छिन्नायाः वह्नित्वावच्छिन्नप्रतियोगितायाः अवच्छेदकं वह्नित्वं भवति इति अव्याप्तिः । सामान्यपदोपादाने तु नैष दोषः । वह्नित्वावच्छिन्नपर्वतीयवह्नि-अधिकरणता तु निरूक्तस्वरूपसम्बन्धेन पर्वते वर्तते एव । अतः पर्वते वह्नित्वावच्छिन्नाधिकरणतासामान्य-स्याभावः न वर्तते। तस्मात् घटाभावमादाय लक्षणसमन्वयः ।
एवं यदि यादृशप्रतियोगितापदं परित्यज्य यदभावप्रतियोगितापदं गृह्यते । तदा तु 'कपिसंयोगाभाववान् आत्मत्वात्' इति अत्राव्याप्तिः भवेत् । कपिसंयोगाभावाभावप्रतियोगितायाः कपिसंयोगाभावनिष्ठायाः अवच्छेदक: स्वरूपसम्बन्धः, तेन सम्बन्धेन अवच्छिन्नस्य कपिसंयोगाभावस्याधिकरणता स्वरूपसम्बन्धेन आत्मनि वर्तते । किन्तु कपिसंयोगाभावाभावप्रतियोगितायाः गुणाभावनिष्ठायाः अवच्छेदको धर्मः गुणाभावत्वं तदवच्छिनस्य गुणाभावस्य अधिकरणता न कपिसंयोगाभावाधिकरणतानिरूपितस्वरूपसम्बन्धेन आत्मनि वर्तते। एवं च कपिसंयोगाभावाभावः लक्षणघटको भवति । तस्य तेन स्वरूपसम्बन्धेन अवच्छिन्ना या प्रतियोगिता कपिसंयोगाभावनिष्ठा, तदवच्छेदकं कपिसंयोगाभावत्वम् इति अव्याप्तिः । यादृशप्रतियोगितापदोपादाने तु न दोषः, यतः यादृशप्रतियोगितापदेन यदि गुणाभावत्वावच्छिन्ना एव प्रतियोगिता गृह्यते, तदा तादृशप्रतियोगितापदेन सा एव ग्रहीतुं शक्या । तस्याः अनवच्छेदकं एव कपिसंयोगाभावत्वं इति लक्षणघटनात् नाव्याप्तिः । यदि च यादृशप्रतियोगितापदेन कपिसंयोगाभावत्वावच्छिन्ना प्रतियोगिता गृह्येत, तदा तस्याः अवच्छेदकं कपिसंयोगाभावत्वं, तदवच्छिन्नः कपिसंयोगाभावः, तस्याः अधिकरणता स्वरूपसम्बन्धावच्छिनकपिसंयोगा
cododode
સિદ્ધાંત લક્ષણ ઉપર ચન્દ્રશેખરીયા નામની ટીકા - ૧૫