________________
दीधिति: १
तदवच्छेदक एव साध्यतावच्छेदको वह्नित्वात्मको धर्म इति भवत्यत्राव्याप्तिः । इदन्तु सूक्ष्मबुद्ध्याऽवधारणीयम् यदुत: महानसीयवह्निवृत्तित्वविशिष्ट-वह्नित्ववनिष्ठा प्रतियोगिता महानसीयवह्निवृत्तित्वविशिष्ट वह्नित्वेनावच्छिन्ना भवति । किन्तु महानसीयवह्नि-वृत्तित्वेनावच्छिन्ना नैव भवति । महानसीयवह्निवृत्तित्वस्य महानसीयवह्निवृत्तित्वविशिष्टवह्नित्वमति अभावादिति ।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
. इत्थञ्च तदव्याप्तिवारणाय दीधितिलक्षणस्य परिष्कारः कर्तव्यः । स च इत्थम् । यादृक्प्रतियोगितावच्छेदकता निरवच्छिन्ना, तादृशी प्रतियोगिता एव लक्षणघटकत्वेन विवक्षिता । अत्र महानसीयवह्निवृत्तित्वविशिष्टवह्नित्ववन्निष्ठप्रतियोगितायाः अवच्छेदकं तादृशवह्नित्वं । तस्मिन् प्रतियोगितावच्छेदकता । सा च महानसीयवह्निवृत्तित्ववह्नित्यैतदुभयधर्मावच्छिन्ना । अर्थात् साध्यतावच्छेदकतावच्छेदकवह्नित्व तदितरावच्छिन्ना, न तु निरवच्छिन्ना । अतः सा प्रतियोगिता न गृह्यते । किन्तु अन्यैव घटाभावीयप्रतियोगिता । तदनवच्छेदकं वह्नित्वं साध्यतावच्छेदकं इति नाव्याप्तिः । एतच्च यत्र साध्यतावच्छेदकं शुद्धजातिरूपं अखंडोपाधिरूपं वा' तत्र बोध्यम् ।
܀܀܀܀܀܀܀܀
यत्र तु जातिमद्वान् घटत्वात् इत्यादौ जातित्वविशिष्टजातयः एव विशिष्टात्मिकाः साध्यतावच्छेदकरूपाः । तत्र: यदि दीधितिप्रोक्तं लक्षणं अनुस्त्रीयते, तदा पटसमवेतं नीलादिरूपम्, तस्मिन् पटसमवेतत्वम् । तस्मिन्नेव पटॆ' नीलत्वT रूपत्वादिजातयः । एवं च नीलत्वादिजातयः पटसमवेतत्वसमानाधिकरणाः । तथा च सामानाधिकरण्यसम्बन्धेन पटसमवेतत्वं नीलत्वादिषु वर्तते । तादृशजातिमत् पटीयनीलादिरूपम् । तथा च पटसमवेतत्वविशिष्टजातिमत् नीलादिरूपं पटे एव वर्तते, न तु घटे । अर्थात् घटे पटसमवेतत्वविशिष्टजातिमदभावः वर्तते । तत्प्रतियोगी तादृशजातिमान् । प्रतियोगितावच्छेदिकाः तादृश्यः विशिष्टाः जातयः । ताः एव शुद्धजात्यनतिरिक्तत्वात् शुद्धजातयः । ताः एव साध्यतावच्छेदिकाः इति अत्र अव्याप्तिः । अत्रापि जागदीशीनिष्ठपरिष्कारानुसारेणापि अव्याप्तिः संभवत्येवेति सूक्ष्मबुद्ध्या ज्ञेयम् । यत्र घटत्वं: वर्तते तत्र रूपत्वादिजातिमपादि वर्तते । अतःइदं सत्स्थानम् । किन्तु व्याप्तिलक्षणं न घटते ।
तद्वारणाय दीधितिग्रन्थे अयं परिष्कारः करणीयः यदुत यादृक्प्रतियोगितावच्छेदकता साध्यतावच्छेदकतावच्छेदकतदितरानवच्छिन्ना । तादृक्प्रतियोगिता एव लक्षणघटकत्वेन विवक्षिता । तथा च अत्र पटसमवेतत्वविशिष्टजातिनिष्ठा प्रतियोगितावच्छेदकता साध्यतावच्छेदकतावच्छेदकजातित्व-तदितरपटसमवेतत्वोभयावच्छिन्ना, न तु अनवच्छिन्ना । अतः पटसमवेतत्वविशिष्टजातिमन्निष्ठा प्रतियोगिता न लक्षणघटकं भवितुमर्हति । किन्तु घटाभावीयप्रतियोगिता एव । यतः तत्प्रतियोगितावच्छेदकता घटत्वनिष्ठा केवलं निरवच्छिन्ना । न तु तदुभयावच्छिन्ना । अतः न सा गृह्यते तत्प्रतियोगितानवच्छेदिकाः रूपत्वादिजातयः एव साध्यतावच्छेदिकाः इति लक्षणसमन्वयात् नाव्याप्तिः ।
न च शुद्धसाध्यतावच्छेदकवह्नित्वादिस्थले इव विशिष्टसाध्यतावच्छेदकजातित्वविशिष्टजात्यादिस्थलेऽपि निरवच्छिन्ना प्रतियोगिता एव लक्षण-घटका वक्तव्या, किं 'साध्यतावच्छेदकतावच्छेदक-तदितरानवच्छिन्न' इत्यादि निरूपणेन ? तावतैव अत्र अव्याप्तिवारणसंभवात् । यतः पटसमवेतत्वविशिष्टजातिमन्निष्ठप्रतियोगितावच्छेदकता तादृशजातिनिष्ठा साध्यतावच्छेदकतावच्छेदक-जातित्वाद्यवच्छिन्ना एव । नतु निरवच्छिन्ना । अतः सा प्रतियोगिता न गृह्यते । किन्तुः
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
܀܀܀܀܀܀܀܀܀
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ ૨૦ ૨૧
܀܀܀܀܀܀܀܀܀܀