________________
दीधितिः८
܀
܀
ચન્દ્રશેખરીયા: પ્રશ્નઃ જેમ નં.૧ ગોવાવચ્છિન્ન નં.૧ ગૌમત્તાના જ્ઞાન પ્રત્યે નં.૧ ગોવાવચ્છિન્ન નં.૧ ગવાયત્તાભાવની પ્રતીતિ પ્રતિબંધક છે. તેમ નં.૧ ગોવાવચ્છિન્ન નં.૧ ગૌમત્તાના જ્ઞાન પ્રત્યે નં. ૧ ગોત્વાવચ્છિન્ન નં.૧ ગૌધ્વંસની પ્રતીતિ પણ પ્રતિબંધક બને જ છે. એ રીતે નં.૧ ગૌપ્રાગભાવની પ્રતીતિ પણ પ્રતિબંધક બને જ છે. અને આમ હોવાથી નં.૧ ગોધ્વંસ વિગેરેમાં પણ નં.૧ ગોત્વાવચ્છિન્નપ્રતિયોગિતાત્વ માનવું જ પડશે. ટું કમાં ત્રણેય અભાવની પ્રતીતિ એકસરખી રીતે જ પ્રતિબંધક બનતી હોવાથી ત્રણેયમાં સામાન્યધર્માવચ્છિન્નપ્રતિયોગિતાકત્વ માનવું જ જોઈએ.
܀
܀܀
܀܀܀
܀
܀܀
܀
܀
܀
܀܀܀
܀
जागदीशी -- एकसम्बन्धेन तद्गवात्यन्ताभावग्रहेऽपि सम्बन्धान्तरेण तद्गोमत्ताबुद्ध्युत्पादात् सम्बन्धविशेषमन्तर्भाव्यैवात्यन्ताभावग्रहस्य प्रतिबन्धकतायाः ध्वंसवत्ताग्रहसाधारण्यासम्भवादित्याशयेनाह*मतेऽपीति* [शि० पृ० १०१]।
܀ ܀
܀
܀ ܀
܀
܀
܀ ܀
܀ ܀
܀
܀
܀ ܀
܀
चन्द्रशेखरीयाः न, भूतले समवायेन तद्गवात्यन्ताभावज्ञाने सत्यपि "भूतले संयोगेन तद्गोमान्" इति ज्ञानं संभवति । अतः न केवलं तद्गोत्वावच्छिन्नप्रतियोगिताकात्यन्ताभावविषयकं ज्ञानं प्रतिबंधकं । किन्तु संयोगसम्बन्धाविच्छिन्नतद्गोत्वावच्छिन्नप्रतियोगिताकात्यन्ताभाववत्ताज्ञानमेव संयोगेन तद्गोमत्ताज्ञानं प्रति प्रतिबंधकं वाच्यम् । किन्तु भूतले "तद्गौः ध्वस्ता" इति ज्ञानान्तरं भूतले कालिकेन, संयोगेन, केनापि सम्बन्धेन वा "तद्गोमान्" इति ज्ञानं न भवति । अतः ध्वंसविषयकज्ञानं सम्बन्धविशेषाघटितमेव प्रतिबंधकं भवति । एवं च संयोगेन तद्गोमत्ताज्ञानं प्रति तद्गोत्वावच्छिन्नप्रतियोगिताकध्वंसज्ञानं तद्गोत्वावच्छिन्नप्रतियोगिताकप्रागभावज्ञानं च प्रतिबंधकं भवति । किन्तु यत्र केवलं गोत्वावच्छिन्नप्रतियोगिताकात्यन्ताभावज्ञानं प्रतिबंधकं भवति । तत्र संयोगावच्छिन्नगोत्वावच्छिन्न प्रतियोगिताकात्यन्ताभावज्ञानं एव प्रतिबंधकं भवति । अतः ज्ञायते यत् अत्यन्ताभावीयप्रतियोगिता ध्वंसप्रागभावीयप्रतियोगिताभिन्न-स्वरूपा एव । अतः एव अत्यन्ताभावीयप्रतियोगितायां गोत्वादिसामान्यधर्मावच्छिन्नत्वप्रसिद्धौ अपि तदनुसारेण ध्वंसप्रागभावीयप्रतियोगितायां गोत्वादिसामान्यधर्मावच्छिन्नत्वं असिद्धमेव । अतः एव वयं ध्वंसे प्रागभावे च. सामान्याभावत्वं सामान्य-धर्मावच्छिन्नप्रतियोगिताकत्वं न स्वीकुर्मः । अतः एव "ये केचन... मन्यन्ते..." इति उक्तं ।। तथा च तेषां मतेऽपि केषांचित् द्वयणुकानां ध्वंसवति खंडप्रलये अन्यत्र प्रसिद्धोऽपि द्वयणुकत्वावच्छिन्नप्रागभावो न संभवति । एवं केषांचित् द्वयणुकानां प्रागभाववति खंडप्रलये अन्यत्र महाप्रलयादौ प्रसिद्धोऽपि द्वयणुकत्वावच्छिन्नध्वंसाभावो न संभवति इत्यतोऽभावान्तरमादायातिव्याप्तिः दुर्वारा इति पूर्वपक्षस्याभिप्रायः । । एवं तावत् विस्तरतः पूर्वपक्षः प्रतिपादितः । इदान्तं सिद्धान्ती तस्य समाधानं करोति-एतासां सर्वासां आपत्तीनां मूलमिदमेव यत्-प्रतियोगिध्वंसाधिकरणे प्रतियोग्यत्यन्ताभावो न विद्यते-इति किन्तु इदमेव सर्वथाऽसत् । यतो । यथा घटादिप्रतियोगिमति अपि कालेऽपि घटानधिकरणपर्वताद्यवच्छेदेन घटाभावो विद्यते एव । एवं घटध्वंसाधिकरणेऽपि काले घटात्यन्ताभावो विद्यते एव । तथा च अदृष्टाद्यधिकरणे खण्डप्रलये द्वयणुकात्यन्ताभावस्य सत्वात् साध्याभावस्यैव
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ - ૧૮૨
ܕ݁ܳ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀