________________
दीधितिः६
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
प्रतियोगिव्यधिकरणा-भावाप्रतियोगित्वज्ञानात् विशिष्टसत्त्वसाध्यकानुमितिप्रसङ्गस्यैव प्रकृतेऽतिप्रसङ्गपदार्थत्वात् प्रागुक्तरीत्या विशिष्टसत्त्वस्यापि व्याप्यवृत्तित्वविरहाच्च।
1 चन्द्रशेखरीयाः अत्रोच्यते । यद्यपि विशिष्टसत्तायाः व्याप्यवृत्तित्वात् अत्र प्रतियोग्यसामानाधिकरणपदाघटिता. एव व्याप्तिः वक्तव्या । सा च अत्र नातिव्याप्ता, साध्याभावस्यैव लक्षणघटकत्वात् । अतो विशिष्टसत्तानिरूपितव्याप्त्यभाववान् जाति: इति व्यभिचारज्ञानं अत्र भवति । तथापि प्रतियोग्यसमानाधिकरणपदघटितव्याप्तिविषयकज्ञानं तु! अत्रापि संभवत्येव । ज्ञानोत्पादे तु न कोऽपि प्रतिबंधकः । अतो विशिष्टसत्तानिरूपितप्रतियोग्यसमानाधिकरणपदघटितव्याप्तिमद्जातिमान्... इति परामर्शज्ञानं प्रमात्मकं संभवति एव । तेन च विशिष्टसत्वसाध्यिकाऽनुमितिः उत्पद्यते । सा च प्रमात्मकज्ञानजन्यत्वात् प्रमैव मन्तव्या । किन्तु सा भ्रमरूपैव मन्यते, "गुणः विशिष्टसत्तावान्" इत्याकारकत्वात्। अतः एतादृगनुमित्युत्पत्यापत्तिरेव अतिव्याप्तित्वेन अत्र प्रतिपादिता बोध्या।
अयं भावः । व्याप्यवृत्तिसाध्यके विशिष्टसत्तासाध्यकात्मके प्रतियोग्यसमानाधिकरणपघटितमेव व्याप्तिलक्षणम् ।। तच्च अत्र नातिव्याप्तं इति प्रागेव भावितम् । अतः अत्र "जातिहेतौ विशिष्टसत्ताव्यभिचारोऽस्ति" इति ज्ञानं भवति । तादृशे ज्ञाने विद्यमानेऽपि" विशिष्टसत्वं जातिमन्निष्ठप्रतियोग्यसमानाधिकरणघटाभावाद्यप्रतियोगि" इत्यपि ज्ञानं भवति ।। अर्थात् प्रतियोग्यसमानाधिकरणपदघटितव्याप्तिज्ञानं तु सुलभमेव । तज्ज्ञानात् च अनुमित्यापत्तिः इति सा एव अतिव्याप्तित्वेन : दीधित्यां प्रोक्ता मन्तव्या।
ननु अनुमित्युत्पत्तिरूपातिव्याप्तिवारणं तु प्रकारान्तरेणाऽपि संभवति । व्याप्यवृत्तितानवच्छेदक- धर्मावच्छिन्नसाध्यताकानुमितिं प्रति प्रतियोगिताश्रयाधिकरणावृत्ति-हेत्वधिकरणवृत्यभावप्रतियोगितानवच्छेदकत्वज्ञानस्य हेतुत्वम् । इति मन्तव्यम् । विशिष्टसत्तात्वं तु विशिष्टसत्तानिष्ठव्याप्यवृत्तितायाः अवच्छेदकं । अतो विशिष्टसत्तात्वावच्छिन्नसाध्यताकानुमितिः व्याप्यवृत्तितानवच्छेदकधर्मावच्छिन्नसाध्यकानुमितिः न भवति। तथा च निरुक्तज्ञानस्य *विशिष्टसत्तासाध्यकानुमितिं प्रति अकारणत्वात् न तेन ज्ञानेन विशिष्टसत्तासाध्यकानुमित्युत्पत्तिः भवति । एवं च न. प्रतियोगितावच्छेदकावच्छिन्नासमानाधिकरण्यं"... इत्यादि परिष्कारः समुचितः । तद् विनैव अतिव्याप्तिवारणसंभवात् इति चेत् । १ न, एवमपि व्याप्यवृत्तिपदस्य द्वितीयव्याख्यानुसारेण तु विशिष्टसत्वमपि अव्याप्यवृत्ति एव । तथा हि विशिष्टसत्वाधिकरणं द्रव्यं । तत्र जात्यादौ वर्तमानः विशिष्टसत्ताऽभावः कालिकेन वर्तते । समवायावच्छिन्नप्रतियोगिताकस्य, तस्य प्रतियोगिता विशिष्टसत्तायाम् अस्ति, न तु तादृशप्रतियोगिताऽभावः । एवं च अत्र विशिष्टसत्वं अव्याप्यवृत्ति एव । तस्मात् तत्साध्यके प्रतियोग्यसमानाधिकरणपदं निवेश्यमेव । तथा च प्रोक्तपरिष्कारेऽक्रियमाणे यथाऽतिव्याप्तिर्भवति, यथा च प्रतियोगितावच्छेदकावच्छिन्नासमानाधिकरण... इति परिष्कारेण अतिव्याप्तिनिरासो भवति इति सर्वं अनन्तरमेव निरूपितं । न पुनः प्रतन्यते।
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
કે
સિદ્ધાન્તલક્ષણ ઉપર 'ચન્દ્રશેખરીયા' નામની સંસ્કૃત+ગુજરાતી સરલ ટીકાઓ - ૧૪૨