________________
००
द्वितीयं जवनिकान्तरम् राजा-ईदिसो जेव दोहलस्स पहावो । विचक्षणा-अअंतिलअहुमो ।
(कर्पूरमजंरी चिरं तिर्यगवलोकयति।) राजातिक्खाणं तरलाण कजलकलासंवग्गिदाणं पि से
पासे पंचसरं सिलीमुहधरं णिच्चं कुणंताण अ। णेत्ताणं तिलअदुमे णिवडिदा धाडी मअच्छीअ जं
तं सो मंजरिपुंजदंतुरसिरो रोमंचिदोध टिओ॥ ४६॥ विचक्षणा-एसो वि असोअसाही ।
( कर्पूरमञ्जरी चरणताडनं नाटयति ।) राजाईदृश एव दोहदस्य प्रभावः । विचक्षणाअयं तिलकद्रुमः । राजातीक्ष्णयोस्तरलयोः कजलकलासंवलिगतयोरप्यस्याः
पार्श्वे पञ्चशरं शिलीमुखधरं नित्यं कुर्वतोश्च । नेत्रयोस्तिलकद्रुमे निपतिता धाटी मृगाक्ष्या य
त्तत्स मञ्जरीपुञ्जदन्तुरशिरा रोमाञ्चित इव स्थितः ॥ तीक्ष्णयोर्दीर्घकृशाग्रयोः, कज्जलकला सूक्ष्मं कजलं तत्संवल्गितयोस्तत्संबद्धयोः, पञ्चशरं काममस्याः कर्पूरमञ्जर्याः पार्श्वे शिलीमुखधरं बाणधरं नित्यं सर्वदा कुर्वतोः, मृगाक्ष्या नेत्रयोर्धाटी रचनाव्यापारविशेषस्तिलकद्रुमे यद्यस्मात्कारणात्पतितस्तस्मात्स तिलकतर्मअरीणां पुजः समूहस्तेन दन्तु साङ्करं शिरोऽग्रं यस्य सः । अत एव रोमाञ्चित इव संजातरोमाञ्च इव वर्तत इत्यर्थः । शिलीमुखधरं पञ्चशरं पार्श्वे नित्यं कुर्वतोरित्यनेन कंदर्पबाणसाम्यं नेत्रयोर्व्यजितम् । तेन च कामिखिन्नतासंपादकत्वं काममार्गणधर्मोऽनयोर्व्यज्यते । अत्रापि च्छेकवृत्त्यनुप्रासोपमोत्प्रेक्षासंकरालंकारा ध्येयाः। विचक्षणाएषोऽप्यशोकशाखी।