________________
कर्पूरमञ्जरी
विचक्षणा-एस कुरवअतरू ।
(कर्पूरमञ्जरी तमालिङ्गति ।) राजाणवकुरवअरुक्खो कुंभथोरत्थणीए
रहसविरइदेणं ण्णिब्भरालिंगणेणं । तह कुसुमसमिद्धिं लंभिदो सुंदरीए
जह भसलकुलाणं एत्थ जत्ता समत्ता ॥४४॥ विदूषकः-भो, पेक्ख पेक्ख महेंदजालं । जेण,
बालो वि कुरवअतरू तरुणीए गाढमुवगूढो ।
सहस त्ति कुसुमणिअरं मअणसरे विअ समुग्गिरइ ॥४५॥ विचक्षणाएष कुरबकतरुः। राजा
नवकुरबकवृक्षः कुम्भस्थूलस्तन्या
रभसविरचितेन निर्भरालिङ्गनेन । तथा कुसुमसमृद्धिं लम्भितः सुन्दर्या
यथा भ्रमरकुलानां तत्र यात्रा प्रवृत्ता ॥ जातेति यावत्। 'अथ च तत्र' इति 'ततः' इत्यर्थे । तत्र ततो यात्रा गमनागमनं समाप्तमित्यर्थः । सर्वदा तत्रैव तिष्ठन्तीति भावः । यहा,-असमाप्तेति नप्रश्लेषः । तत्रेति विषयसप्तमी। तथा च तद्विषये यात्रा वृक्षान्तरात्तत्रागमनं तन्न समाप्तमित्यर्थः । अनेन कुसुमोद्गमः, तत्र च सौरभातिशयो ध्वन्यते । अत्रापि च्छेकानुप्रासरूपकोपमासंकरा अलंकाराः । विदूषकःभोः, प्रेक्षख प्रेक्षख महेन्द्रजालम् । येन,
बालोऽपि कुरबकतरुस्तरुण्या गाढमुपगूढः।
सहसेति कुसुमनिकरं मदनशरमिव समुद्रिति ॥ ___1 'तत्थ जत्ता पउत्ता' इति टीकादृतः पाठः । 2 'मदनसरं' इति टीकापाठः।