________________
द्वितीयं जवनिकान्तरम् राजा-मा एवं भण । हरिअंदपुरि व दिट्ठा पणट्ठा अ। (स्मृतिनाटितकेन ।)
मंजिट्ठी ओट्ठमुद्दा णवघडिअसुवण्णुजला अंगलट्ठी दिट्टी बालिंदुलेहाधवलिमजअणी कुंतला कजलाहा । इत्थं वण्णाण रेहा विहरइ हरिणीचंचलच्छी अ एसा कंदप्पोजाअदप्पोजुअजणजअणे पुण्णलक्खो विभाइ॥४१॥
राजामैवं भण ! हरिश्चन्द्रपुरीव दृष्टा प्रनष्टा च । स्मृतीति । स्मृतिलक्षणमुक्तं प्राक् । मंजिट्ठी इति।
माञ्जिष्ठी ओष्ठमुद्रा नवघटनसुवर्णोज्ज्वलाङ्गयष्टिदृष्टिीलेन्दुरेखाधवलिमजयिनी कुन्तलाः कजलाभाः। इत्थं वर्णानां रेखा विहरति हरिणीचञ्चलाक्षी चैषा
कंदर्पो दीर्घदी युवजनजये पूर्णलक्ष इव भाति ॥ माञ्जिष्ठीत्यनेन मञ्जिष्टनिष्टरक्ततातिशयवत्त्वमोष्टमुद्रायां ध्वन्यते । नवा घटना यस्येति बहुव्रीहिः । तथा च तादृशस्वर्णनिरूपितचाकचक्यातिशयवत्त्वमङ्गेषु व्यज्यते। यष्टिरूपकेण च तन्निष्टाधिककृशत्वमङ्गेषु द्योत्यते । 'इन्दुरेखा' इत्यनेन चाकलङ्कित्वं ज्ञाप्यते। 'कजलाभा' इत्यनेन कज्जलनिष्टनीलिमातिशयवत्त्वं कुन्तलेष्वभिव्यज्यते । अथवा कज्जले आभा येषामिति विपर्यासोपमा, तल्लक्षणं काव्यादर्श दण्डिनोक्तम् ( २०१७ ) 'सा प्रसिद्धिविपर्यासाद्विपर्यासोपमेष्यते।' इति । इत्थमनिर्वचनीयाः। 'रेखा'पदेन चोच्चारणगतातिशयविशेषो लक्ष्यते । दीर्घ दर्पोऽस्यास्तीति दीर्घदपी। अनेन च लक्ष्यस्वाधीनीकरणे क्लेशलेशस्याप्यभावाद्गर्वकणोऽपि न क्षीण इति भावः। पूर्णलक्ष्यत्वं खाधीनं यावलक्ष्यत्वमेव । अत्रापि रूपकोपमोत्प्रेक्षानुप्रासलक्षणाः शब्दार्थालंकारा ज्ञेयाः ।
- 1 णवघडणसुवण्णुजला' इति टीकादृतः पाठः। 2 'दीहदप्पी' इति टीकातुसारी पाठः। 3 'वि भादि' टीकापाठः।