________________
कर्पूरमञ्जरी णअणाइँ पसासरिसाइँ झत्ति फुल्लाई कोदुहल्लेण । अप्पेंति व कुवलअसिलिम्मुहे पंचबाणस्स ॥ ३८॥ दोलारअविच्छेओ कहं पि मा होहि इत्ति पडइव । पिडिम्मि वेणिदंडो मम्महचम्मट्टिआअंतो॥ ३९ ॥ इअ एआइ विलासुजलाई दोलापवंचचरिआई। कस्स ण लिहा व चित्ते णिउणं कंदप्पचित्तअरो॥ ४०॥ राजा-(सविषादम् । अवइण्णा कप्पूरमंजरी ? रित्ता दोला, रित्तं अ मज्झ चित्तं, रित्ताइं दंसणुस्सुअजणणअणाई । विदूषका-ता विजल्लेह व खणदिट्टणट्ठा ।
नयने प्रसूतिसदृशे झटिति फुल्ले कौतूहलेन ।
अर्पयत इव कुवलयशिलीमुखे पञ्चबाणस्य ॥ कुवलये एव शिलीमुखौ शरौ । कुसुमशरत्वात्तस्येति भावः । रूपकमुत्प्रेक्षा चालंकारः । तल्लक्षणं तु पूर्वोक्तमेव ।।
दोलारसविच्छेदः कथमपि मा भवस्विति पततीव ।
पृष्ठे वेणिदण्डो मन्मथचर्मयष्टिकायमानः ॥ अत्रापि रूपकोत्प्रेक्षे।
इत्येतानि विलासोज्वलानि दोलाप्रपञ्चचरितानि ।
कस्य न लिखति चित्ते निपुणः कंदर्पचित्रकरः ॥ इत्यमुना प्रकारेणैतानि दोलाप्रपञ्चचरितानि कर्मभूतानि कंदर्पचित्रकरः कर्ता कस्य कामिनश्चित्ते न लिखति ? अपि तु सर्वस्यापीत्यर्थः । किंभूतानि ? विलासा उजवलाः शुचयो येषु तानि । विलास उज्वलश्च येषु तानीति वा । 'शृङ्गारः शुचि. रुज्वलः' इति कोषात् । अत्र रूपकम् ।
___ कथमवतीर्णा कर्पूरमञ्जरी ? रिक्ता दोला, रिक्तं च मम चित्तम् , रिक्तानि दर्शनोत्सुकानि मम नयनानि ।
विदूषकःतद्विद्युल्लेखेव क्षणदृष्टनष्टा। 1 'लिहइ चित्ते' इति टीकापाठः। 2 'कधमवइण्णा' इति टीकाभिमतः पाठः।