________________
द्वितीयं जवनिकान्तरम् तिस्सा तावपरिक्खिणाअ णिहिदो हत्थो थणुत्थंगदो
दाहुड्डामरिदो सहीहि बहुसो हेलाअ कड्डिजदि । किं तेणावि इमं णिसामअ गिरं संतोसणिं तासणि
हत्थच्छत्तणिवारिदेंदुकिरणा बोलेइ सा जामिणीं ॥ २९॥ कजसेसं कविजलो णिवेदइस्सदि । तं च देवेण तधा कादवं । ( इति परिक्रम्य निष्क्रान्ता।)
राजा-वअस्स ! किं पुण तं कजसेसं ? विदषकः-अज हिंदोलअचउत्थी । तहिं गोरिं कदुअ देवीए
तस्यास्तावत्परीक्षणाय निहितो हस्तः स्तनोत्सङ्गतो
दाहोड्डामरितः सखीभिर्बहुशो हेलया कृष्यते । किं तेनापीमा निशामय गिरं संतोषिणी त्रासिनी
हस्तच्छत्रनिवारितेन्दुकिरणातिवाहयति सा यामिनीम् ॥ हेलयाऽवज्ञया कृष्यते तयेति शेषः । स्वसंबन्धिविरहार्तिभाजनत्वेन । त्रासिनीमिति चैतादृशदुःसहवियोगपीडितापि स्वहस्तेनैवेन्दुकरान्निवारयतीति तेषां हस्तस्पशेऽशङ्कनीयमपि मरणादिकं संभाव्यत इति त्रासकर त्वम् । अथवा बलात्कारेण यथेन्दुकिरणस्पर्शी भवति तथा विधत्त इत्यतिदुष्करमिति त्रासकरणं ज्ञेयम् । यद्वा हस्तच्छत्रेत्यनेन हस्तस्य संपूर्णशरीरे चन्द्रकरस्पर्शनिवारकत्वासंभवाद्धस्तानवच्छन्नप्रदेशे शशिकरस्पर्शावश्यंभावस्तत्कारणं वेदितव्यः । अनेन विधानं नाम मुखसंध्यङ्गमुकम् । तल्लक्षणं दशरूपके (१।२८)-'विधानं सुखदुःखकृत्' इति। अत्रापि रूपकच्छेकानुप्रासादयः शब्दार्थालंकारा ऊह्याः । लक्षणं तूक्तम् ।
कार्यशेष कपिञ्जलो निवेदयिष्यति । तच्च देवेन तथा कर्तव्यम् । कपिञ्जलो विदूषकः ।
राजा
वयस्य ! किं पुनस्तत्कार्यशेषम् ? विदूषकःअद्य हिन्दोलनचतुर्थी । तत्र गौरी कृत्वा देव्या कर्पूरमञ्जरी हिन्दोलके आरोह