________________
६२
कर्पूरमञ्जरी जस्सि सवंगसंगो सअलगुणगणो सो अदंभो अलंभो
तस्सिणेच्छंति काले परमसुहअरे किं पिणेवच्छलच्छि २८॥ विचक्षणा–देव ! इदं विण्णवीअदि-ण केवलं देवीणिअमेण तिस्सा अणुगद म्हि । तारामेत्तीए वि सहित्तणं उवगदा कप्पूरमंजरीए । तेण तक्कजसज्जा अहं पुण ओलग्गाविआ भविस्सं ।
यस्मिन्सर्वाङ्गसङ्गः सकलगुगगणः सोऽदम्भोऽलभ्य- स्तस्मिन्नेच्छन्ति काले परमसुखकरे कामपि नेपथ्यलक्ष्मीम् ॥ कृत्रिमभूषाभिनटीनामेवापाततः सौन्दर्यमुल्लसति, न पुनः सीमन्तिनीनामित्यर्थः । यच्चङ्गं समीचीनं तदेव निजाङ्गं वस्याङ्गमाह्लादकमित्याह्लादकत्वविशिष्टाङ्गेऽङ्गमात्रवाचकाङ्गपदवाच्यसंक्रमादयमर्थान्तरसंक्रमितवाच्यो लक्षणामूलो ध्वनिः । तेन स्वाभाविकाङ्गसौन्दर्येणैव सीमन्तिन्यः कुलाङ्गना जनमनोहरणं भवन्तीयर्थः । यद्यपि 'जनमनोहरणम्' इति भिन्नलिङ्गवचनं पदं न 'सीमन्तिन्य' इति पदय विशेषणत्वमर्हति, तथापि वस्तुपदाध्याहारेण योज्यम् । तस्य चाजहल्लिङ्गत्वान्न दोष इति ध्येयम् । अथवा जनमनोहरणमिति काकाक्षिगोलकन्यायेनोभयत्र संबध्यते । तथा च यन्निजाङ्गं खाभाविकाङ्गं चङ्गं तदेव जनमनोहरणं भवतीत्यर्थः । यदा पूर्वत्रैव संबध्यते तदा च तेन स्वाभाविकाङ्गचङ्गत्वेनैव सीमन्तिन्यो भवन्ति। तासामुत्तमसीमन्तिनीत्वं भवतीत्यर्थः । तथा च 'सीमन्तिनी'पदवाच्यस्यैवोत्तमत्वविशिष्टे तस्मिन्संक्रमादत्राप्यर्थान्तरसंक्रमितवाच्यो ध्वनिः । यस्मिन्काले सकलः संपूर्णा गुणानां गणः समूहः सर्वाङ्गसङ्गः सर्वेष्वङ्गेषु सङ्गो यस्य तादृशः, अदम्भः न विद्यते दम्भो यत्रासावदम्भः स्वाभाविकः, अलभ्योऽप्राप्योऽस्ति, अथ च तस्मिन्काले सुखकरे कामपि नेपथ्यलक्ष्मी नेच्छन्ति । विदग्धा इति शेषः । निजामत्य कवचनेनैकमपि स्वाभाविकसुन्दरमङ्गं लोकहृदयहरणसमर्थ किमुत सर्वाङ्गा गीति बन्यते । अत्र च नटीसीमन्तिन्योर्व्यतिरेकालंकारो व्यङ्ग्यः । च्छेकवृत्त्यनुप्रासालंकारावप्यत्र बोध्यौ । तल्लक्षणं प्रागेवोक्तम् । विचक्षणा
देव! एतद्विज्ञाप्यते-न केवलं देव्या नियोगेन तम्या अनुगतास्मि । तारामैत्र्यापि सखीत्वं प्राप्ता कर्पूरमञ्जर्याः । तेन तत्कार्ये सक्ताऽहं पुनः सेवकीभूय निवेदयिष्यामि। ___1 'देवीए णिओएण' इति टीकानुसारी पाठः। 2 पत्ता कप्पूरमंजरीए' इति टीकादृतपाठः। 3 'भविअ णिवेदइस्सं' इति टीकापाठः ।