________________
द्वितीयं जवनिकान्तरम्
विदूषकः — देव ! इदं परमत्थं विण्णवीअदि,— जिस्सा दिट्ठी संरलधवला कज्जलं तीअ जोग्गं जा वित्थिण्णत्थणकलसिणी रेहइ तीअ हारो । चक्काआरे रमणफलए को वि कंचीमरट्टो
जिस्सा तिस्सा पुण वि भणिमो भूसणं दूसणं च ॥ २३ ॥
राजा - ( पुनस्तामनुसंधाय । )
तिवलिवलिअणाही बाहुमूलेसु लग्गं थणकलसणिअंबाडम्बरेस्ससंतं ।
विदूषकः -
देव ! एतत्परमार्थं विज्ञाप्यते, -
यस्या दृष्टिस्तरलधवला कज्जलं तस्या योग्यं या विस्तीर्ण स्तनकलशिनी शोभते तस्या हारः । चक्राकारे रमणफलके कोऽपि काञ्ज्याडम्बरो यस्यास्तस्याः पुनरपि भणामो भूषणं दूषणं च ॥
यद्येतादृशं दृष्ट्यादि कान्तायास्तिष्ठति तदा भूषणाभावेऽपि शोभाविशेषः स्वाभाविकोऽवभासत एवेति नातिप्रयोजनवत्त्वाद्भूषणमपि दूषणमिव भवतीति दूषणभूषयोः प्रयोजनाभावत्वेन साम्यम् । अथवा दूषणं भूषणमिव भवति । अयमर्थः -- एतादृशदृष्ट्यादिमत्या असमीचीनवस्तुसंबन्धोऽपि भूषणतुल्य एव भवति; शोभाहतिकरत्वाभावात् । अत एव कविचूडामणिना भगवता कालिदासेनापि वर्णितम् — 'किमिव हि मधुराणां मण्डनं नाकृतीनाम्' ( शाकु० १।२० ) इति ।
राजा
――――
५९
त्रिवलिवलितना भी बाहुमूलेषु लग्नं स्तनकलशनितम्बाडम्बरे षूच्छ्वसत् ।
1 विचक्षणा इदं भाषणमिति पाठः क्वचित् पठ्यते । 2 'तरलधवला' इति टीका
नुगुणः ।