SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ४६ कर्पूरमञ्जरी राजा - ( तदनाकर्ण्य सानुरागम् । ) आस्थाणीजण लोभणाण बहला लावण्णकल्लोलिणी लीलाविग्भमहासवासणअरी सोहग्गपालित्तिआ । तैदीवरदीहिआ मह पुणो सिंगारसंजी विणी जं जादा अह मम्महेण धणुहे तिक्खो सरो 'संधिदो ॥ ३॥ (सोन्मादमिव । ) दंस गक्खणादो पहुदि कुरंगच्छी भवति तथेति क्रियाविशेषणं वा । रतयः संभोगास्तेषां कुलं समूहस्तस्य गृहाः स्थानानीत्यर्थः । यद्वा, - रतिकुलस्य प्रीतिसमुदायस्य गृहाः स्थानानि । तज्जनकत्वादित्याशयः । राजा आस्थानीजन लोचनानां बहला लावण्यकल्लोलिनी लीलाविभ्रमहासवासनगरी सौभाग्यपारस्थिता । नेन्दीवरदीर्घिका मम पुनः शृङ्गारसंजीविनी संजाताथ मन्मथेन धनुषि तीक्ष्णः शरः पुङ्खितः ॥ ‘लावण्यकल्लोलिनी' इत्यनेन प्रतिक्षणं सौन्दर्यातिशयवृद्धिर्व्यज्यते । 'वासनगरी' इत्यनेन क्षणमपि तद्विच्छेदाभावो ध्वन्यते । ' तीक्ष्ण' इत्यनेन पूर्वमपि शरसंधानमासीदेव, इदानीं त्वतिदुःसहं तदेतादृशशर विस्तारणा द्योत्यते । सोन्मादमिति । उन्मादलक्षणं शृङ्गारतिलके ( २।१३ ) - ' श्वासप्ररोदनोत्कम्पवसुधोल्लेखनैरपि । व्यापारो जायते यत्र स उन्मादः स्मृतो यथा ॥ इति । साहित्यदर्पणेऽपि ( ३।१६० ) - (चित्तस्य भ्रम उन्मादः कामशोकभयादिभिः । अस्थानहास रुदितगीत प्रलपनादिकृत् ॥' इति । दंसण इति । दर्शनक्षणात्प्रभृति कुरङ्गाक्षी 1 'संजा आ' हति टीकादृतः पाठः । 2 'पुंखिदो' इति टीकादृतः पाठः ।
SR No.032137
Book TitleKarpur Manjari
Original Sutra AuthorN/A
AuthorRajshekhar Mahakavi
PublisherNIrnaysagar Mudranalay
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy