________________
४५
द्वितीयं जवनिकान्तरम् प्रतीहारी-( खगतम् । ) कहं अज्ज वि सो जेव सिरितालीपत्तसंचओ, ताओ ज्जेव अक्खरपंतीओ। ता वसंतवण्णणेण सिढिलआमि से तग्गदं हिअआवजं । (प्रकाशम्। ) दिटिं देदु महाराओ ईसीसि जरढाअमाणे कुसुमाअरम्मि ।
मूलाहिंतो परहुदवहूकंठमुई दलंता
देता दीहमहुरिमगुणं जंपिए छप्पआणं । संचारेंता विरहिसु णवं पंचमं किं च राअं
राउम्मत्ता रइकुलहरा वासरा वित्थरंति ॥२॥ प्रतीहारी
कथमद्यापि स एव श्रीताडीपत्रसंचयः, ता एवाक्षरपतयः । तद्वसन्तवर्णनेन शिथिलयाम्यस्य तद्गतं हृदयावेगम् ।
'आवेग'शब्देन यद्यपि सर्वथा नास्य तन्मनस्कता निराकर्तुं शक्यते, तथापि विषयान्तरसंचारेण किंचिच्छिथिलयामीति चोच्यते ।
दिद्धिं इति । दृष्टिं ददातु महाराज ! ईषदीषज्जरठायमाणे कुसुमाकरे।
कुसुमानामाकर उत्पत्तिस्थानमित्यर्थः । कुसुमानामाकरः समूहो यस्मिन्निति वा। कुसुमैराकर इति वा । 'आकरो निवहोत्पत्तिस्थान श्रेष्ठेषु कथ्यते।' इति विश्वः ।। मूला इति ।
मूलात्प्रभृति परभृतवधूकण्ठमुद्रां दलन्तो
दपतो दीर्घ मधुरिमगुणं जल्पिते पदपदानाम् । संचारयन्तो विरहिषु नवं पञ्चमं किंचिद्रागं
रागोन्मत्ता रतिकुलगृहा वासरा विस्तीर्यन्ते ।। परभृतवध्वः कोकिलस्त्रियः । परभृता वध्व इवेति वा । पक्षद्वयेऽपि संभोगशृङ्गारो व्यङ्ग्यः । मधुरिमैव गुणः । मधुरिम्णा गुणविशेष इति वा । तेन दुःसहत्के च तेषां तस्य भावादिति भावः (१)। 'पुष्पसाधारणे काले पिकः कूजति पञ्चमम्।' 'किंचिद्रागम्'इ ति ‘पञ्चमम्' इत्यस्य विशेषणम्। किंचिद्रागो यस्यां क्रियायामिति यथा