________________
कर्पूरमञ्जरी इत्थं जाणं अवअवगदा का वि सुंदेरमुद्दा
मण्णे ताणं वलइदधणू णिञ्चभिञ्चो अणंगो ॥ ३३ ॥ अवि अ, एदाएतहा रमणवित्थरो जह ण ठाइ कंचीलदा
तहा 'सिहिणतुंगिमा जह 'णिएइ णाहिं ण हु। तहा णअणवढिमा जह ण किंपि कण्णुप्पलं
तहा अ मुहमुज्जलं दुससिणी जहा पुण्णिमा ॥ ३४॥ देवी-अज्ज कविंजल ! पुच्छिअ जाण का एस ति ।
इत्थं यासामवयवगता कापि सौन्दर्यमुद्रा
__ मन्ये तासां वलयितधनुर्नित्यभृत्योऽनङ्गः ॥ अवयवगतेति । सर्वाङ्गव्यापि सौन्दर्यमुक्तम् । नित्यभृत्य इति । भृत्यो यथा भाज्ञामन्तरेणापि तदाशयमेव विज्ञाय कार्य कुरुते तथा कामिनीकटाक्षमात्रेणैव कामिनो वशी करोति काम इत्युत्प्रेक्षयोपमा ध्वन्यते। अत्र सारः। स यथा काव्यप्रकाशे ( १०।१२३)—'उत्तरोत्तरमुत्कर्षों भवेत्सारः परावधिः ।' इति ॥ अपि च, एतस्याः
. तथा रमणविस्तरो यथा न तिष्ठति काञ्चीलता ___ तथा च स्तनतुङ्गिमा यथा नैति नाभिं मुखम् । तथा नयनबंहिमा यथा न किमपि कर्णोत्पलं
__ तथा च मुखमुज्वलं द्विशशिनी यथा पूर्णिमा ॥ न किमपीति न शोभावहमित्यर्थः । क्वचित् 'बुद्धिमा' इति पाठः । क्वचिच्च 'वट्टिमा' इति। तदुभयमप्यप्रमाणम् । 'वृद्धवृत्तशब्दाभ्याम्' इति वृः क्वचिददृष्टत्वात् । द्विशशिनीति 'नवृतश्च' (पा. ५।४।१५३) इति न कप् । अनित्यत्वात् । अद्भुतोपमया वपुषः परमाह्लादकत्वं ध्वन्यते । चरणत्रयेऽतिशयोक्तिहेतू। चतुर्थे तूपमायाः कृतत्वात्प्रक्रमभङ्गः 'तहा अ मुहमुज्जलं जह ण उजलं कंचणं' इति पठित्वा समाधेयः ॥
देवीआर्य कपिञ्जल! पृष्ट्वा जानीहि कषेति । 1 'तहा अ थणं' इति पाठः। 2 'ण एइ णाहिं मुहं' इति टीका० ।