________________
प्रथमं जवनिकान्तरम्
राजा - एदाए दाव एदं, - लावण्णं णवजञ्चकंचणणिहं णेत्ताण दीहत्तणं कण्णेहिं खलिदं कवोलफलआ दोखंडचंदोवमा । एसा पंचसरेण संधिदधणूदंडेण रक्खिजए जेणं सोसणमोहण पहुदिणो विन्धंति मं मग्गणा ॥ ३२ ॥ विदूषकः - ( विहस्य । ) जाणे रत्थाए लोट्टदि से सोहारणं । राजा - ( विहस्य 1 ) पिअवअस्स ! कधेमि दे । अंगं चंगं णिअगुणगणालं किदं कामिणीणं पच्छाअंती उण तणुसिरिं भादि णेवच्छलच्छी ।
राजा
एतस्यास्तावदेवम् । वर्तत इति शेषः ।
लावण्यं नवजात्यकाञ्चननिभं नेत्रयोर्दीर्घत्वं
कर्णाभ्यां स्खलितं कपोलफलको द्विखण्डचन्द्रोपमौ । एषा पञ्चशरेण सज्जितधनुर्दण्डेन रक्ष्यते
येन शोषणमोहनप्रभृतयो विध्यन्ति मां मार्गणाः ॥ द्विधाभूतचन्द्रशकलद्वय निभाविति द्विखण्डेत्यस्यार्थः । यथोद्यानवाटिकांरक्षकस्तत्पुष्पफलादिजिघृक्षया तद्दृष्टारं हन्ति तथेति वस्तुनोपमा व्यज्यते । शोषणेनान्ये गाजा मोहनेनान्या मानसाश्च विकारा उपलक्षिताः । मोहस्तु रसकलिकायाम् - 'मोहस्तु मूर्च्छनं भीतिर्दुः खवेगानुचिन्तनैः । तत्राज्ञानभ्रमापातघूर्णनादर्शनादयः ॥ इति ॥ विदूषकः
जाने रथ्यायां लुठत्यस्याः शोभारत्नम् । रथ्यामध्यस्थितरत्नवदखिलजन रञ्जकमित्यर्थः ।
राजाप्रियवयस्य ! कथयामि ते ।
अङ्गं चङ्गं निजगुणगणालंकृतं कामिनीनां
प्रच्छादयन्ती पुनस्तनुश्रियं भाति नेपथ्यलक्ष्मीः ।
३७
1 'तणुगुणसिरिं' इति पाठः ।