________________
कर्पूरमञ्जरी विदूषकः-अहो से रूवसोहा।
मण्णे मज्झं तिवलिवलिअं डिंभमुट्टिअ गेझं ___णो बाहूहिं रमणफलअं वेटिदुं जादि दोहिं ।
णेत्तच्छेत्तं तरुणिपसईदिजमाणोवमाणं . ता पञ्चक्खं मह विलिहिदुं जादि एसा ण चित्ते ॥ ३०॥ कधं ण्हाणधोदविलेवणा वि समुत्तारितविभूसणा वि रमणिज्जा। अह वा,रूवेणे मुक्का वि विभूसअंति ताणं अलंकारवसेण सोहा । णिसग्गचंगस्स वि माणुसस्स सोहा समुम्मीलदि भूसणेहिं ॥३१॥ विदूषकःअहो अस्या रूपरेखा।
मन्ये मध्यं त्रिवलिवलितं डिम्भमुष्ट्या ग्राह्यं ___ नो बाहुभ्यां रमणफलकं वेष्टितुं याति द्वाभ्याम् । नेत्रक्षेत्रं तरुणीप्रसूतिदीयमानोपमानं
तत्प्रत्यक्षं मया विलिखितुं यात्येषा न चित्ते ॥ रमणफलकं जघनपरिसरः । नेत्रक्षेत्रं चक्षुःपरिसरः । चित्ते विलिखितुं धारयितुं न शक्नोमीत्यर्थः । डिम्भो बालः । 'क्षेत्र'शब्देन नानादृग्विकारास्पदत्वं व्यङ्ग्यम् । अत्र रूपलावण्यसौन्दर्याण्युक्तानि । लावण्यं तु 'मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा। प्रतिभाति यदङ्गेषु लावण्यं तदिहोच्यते ॥' इति । उपमालंकारः । शृङ्गारस्य दीप्तत्वात् 'कान्तिीप्तरसत्वं स्यात्' इति कान्तिर्वाक्यार्थगुण उक्तः । गाम्भीर्यं च । विभावादिकं तु पूर्ववदेव ॥ कथं स्नानधौतविलेपना समुत्तारितविभूषणापि रमणीया । अथवा,
या रूपमुक्ता अपि विभूषयन्ति तासामलंकारवशेन शोभा ।
निसर्गचङ्गस्यापि मानुषस्य शोभा समुन्मीलति भूषणैः ॥ यासां सौन्दर्य नास्ति तासामलंकारेण शोभा। यस्य तु मनुष्यस्य नैसर्गिक सौन्दर्य तस्यालंकारैः कान्तिरुन्मीलति, न त्वसत्येव जायत इत्यर्थः। अत्र समाधिः । यथा काव्यप्रकाशे (१०।१२५) –'समाधिः सुकरं कार्य कारणान्तरयोगतः' ॥ 1 'जे रूवेण' इति टीकापाठः। 2 'ण माणुसस्स' इति काचित्कः पाठः ।