________________
प्रथमं जवनिकान्तरम्
३५ राजा-(विदूषकमपवार्य ।) जं मुक्का सवणंतरेण सहसा तिक्खा कडक्खच्छडा
भिंगाहिट्टिदकेदअग्गिमदलद्दोणीसरिच्छच्छवी । तं कप्पूररसेण णं धवलिदो जोण्हाइ णं ण्हाविदो मुत्ताणं घणरेणुण व्व छुरिदो जादो म्हि एत्थंतरे ॥ २९॥
. राजा-अपवायेति । अपवारणेन जनान्तिकमुच्यते । अत एवोक्तं दशरूपके (१।६५-६६)-'त्रिपताककरेणान्यानपवार्यान्तरा कथाम् । अन्योन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम् ॥ इति । त्रिपताका तु संगीतरत्नाकरे'तर्जनीमूलसंलग्नकुञ्चिताङ्गुष्ठको भवेत् । पताकः संहताकारः प्रसारितकराङ्गुलिः ॥ स एव त्रिपताकः स्याद्वक्रितानामिकाङ्गुलिः ।' इति ।
यन्मुक्ता श्रवणान्तरेण सहसा तीक्ष्णा कटाक्षच्छटा
भृङ्गाधिष्ठितकेतकाग्रिमदलद्रोणीसदृक्षच्छविः । तत्कर्पूररसेन ननु धवलितो ज्योत्स्नया ननु स्नापितो
मुक्तानां घनरेणुनेव च्छुरितो जातोऽस्म्यत्रान्तरे ॥ ___ 'द्रोणी'पदं नेत्रयोरत्यन्तविपुलताकथनार्थम् । अत्र हेत्वतिशयोत्प्रेक्षाविरोधाभासाः । तीक्ष्णकटाक्षनाटनेऽत्यन्तनिवृतेर्विरोधः । सितकृष्णौ कटाक्षावुक्तौ । तरलेति तरलिताख्यो दृग्विकार उक्तः । 'तरलं तदिति प्राहुलॊलतारकनीनिकम् ।' इति । श्रवणान्तर इति 'त्र्यसं तिर्यगुदञ्चितम्' इति व्यस्राख्यः । एतेषु वेद्येषु केषुचिद्रसाभासो ज्ञेयः । नायिकाया असर्पिरसोदयाभावात् । 'एकस्यैवानुरागश्चेदथवा तिर्यगाश्रितः। पोषितो बहुभक्तिश्चेद्रसाभासस्त्रिधा मतः॥' इत्युक्तत्वात् । अत्र संप्रयोगः । रत्याख्यः स्थायिभावः । सर्वत्रालम्बनं नायिका नायकश्च । यौवनादिरालम्बनगुणः । विलासादिका चेष्टा । अलंकृतिर्वस्त्राद्या । वसन्तस्तटस्थः । एते आलम्बनोद्दीपनविभावाः । पूर्वोक्ता दृग्विकारा अनुभावाः। रोमाञ्चादयः सात्त्विका ज्ञेयाः। हर्षादयो व्यभिचारिणः । चक्षुःप्रीत्यादयस्तटस्थाः । भरतस्तु—'तात्कालिको विकारः स्याद्दयितालोकनादिषु । आदरादीक्षणं चैव चक्षुःप्रीतिरुदीर्यते ॥' इति । रसादिलक्षणानि त्वनतिप्रयोजनत्वाद्गौरवाच्च नोच्यन्ते । एवं विभावादयः सर्वत्र ज्ञेयाः ॥