________________
प्रथमं जवनिकान्तरम्
विदूषकः--(वलितग्रीवम् । ) तुवं उण तहिं गच्छ जहिं मे मादाए पढमा दंतावली गदा । ईदिसस्स राउलस्स भदं भोदु, जहिं चेडिआ बंभणेण समं समसीसिआए दीसदि । मइरा पंचगवं च एक्कस्सि भंडे कीरदि, कच्चं माणिकं च समं आहरणे पउंजीअदि ।
चेटी-इह राउले तं ते भोदु कंठद्विदं जं भअवं तिलोअणो सीसे समुव्वहदि । तेणं च दे मुहं चूरीअदु जेण असोअतरु दोहलं लहेदि ।
विदूषकःत्वं पुनस्तत्र गच्छ यत्र मे मातुः प्रथमा दन्तावली गता। कर्णवीटिकेत्यर्थः । ईदिसस्स इति । ईदृशस्य राजकुलस्य भद्रं भवतु, यत्र चेटिका ब्राह्मणेन समं समशीर्षिकया दृश्यते। समशीर्षिका प्रतिस्पर्धा । मइरा इति । मदिरा पञ्चगव्यं चैकस्मिन्भाण्डे क्रियते, काचं माणिक्यं च सममाभरणे प्रयुज्यते । विचक्षणाइह राजकुले तते भवतु कण्ठस्थितं यद्भगवांत्रिलोचनः शीर्षे समुद्वहति । अर्धचन्द्र इत्यर्थः । तेणं इति । तेन च ते मुखं चूर्ण्यतां येनाशोकतरुर्दोहदं लभते । पादप्रहारेणेत्यर्थः । ‘पादाहतः प्रमदया विकसत्यशोकः' इति प्रसिद्धिः।