________________
२४
कर्पूरमञ्जरी विदूषकः-एवं मह भणंतीए तुह वामं दक्खिणं अ जुहिट्ठिलजेट्ठभाअरणामधेअं अंगं तडत्ति उप्पाडइस्सं ।
विचक्षणा-अहं पि उत्तरफग्गुणीपुरस्सरणक्खत्तणामधेअं अंगं तुह तडत्ति खंडिस्सं ।
राजा-वअस्स ! मा एवं भण । कइत्तणे द्विदा एसा। विदषकः-(सक्रोधम् ।) ता उजु जेव किं ण भण्णइ, अम्हाणं चेडिआ हैरिडड्डणंदिउड्डपोट्टिसहालप्पहुदीणं पि पुरदो सुकइ ति? राजा-एवं णेदं।
(विदूषकः सक्रोधं परिकामति । ) विचक्षणा-(विहस्य) तहिं गच्छ जहिं मे मादाए पढमसाडोलिआ गदा।
विदूषकः
एवं मम भणन्त्यास्तव वामं दक्षिणं च युधिष्ठिरज्येष्ठभ्रातृनामधेयमङ्गं झटिति उत्पाटयिष्यामि ।
कर्णरूपमित्यर्थः । भादर इति 'अंते अरः सुपि' (प्रा. ७॥९) इत्यारादेशं बाधित्वा 'पितृभ्रातृजामातॄणामरः' (प्रा. ५१३३ ) इत्यरः । विचक्षणा
अहमप्युत्तराफाल्गुनीपुरःसरनक्षत्रनामधेयमङ्गं तव झटिति खण्डयिष्यामि हस्ताभिधमित्यर्थः।
राजावयस्य ! मैवं भण । कवित्वे स्थितैषा । विदूषकः
ऋज्वेव तम्कि न भण्यते, अस्माकं चेटिका हरिचन्द्रनन्दिचन्द्रकोटिशहालप्रभृतीनामपि पुरतः सुकविरिति? परातिगन्तु (3) मिति शेषः । राजा- एवमेतत् । विचक्षणातत्र गच्छ यत्र मे प्रथमा मातुः शाटिका गता। 1 'हरिअंदणंदिअंदकोट्टिसहा' इति टीकापाठः।