________________
२३
प्रथमं जवनिकान्तरम् णीए विअ एक्कावली तुंडिलाए विअ कंचुलिआ, काणाए विअ कज्जलसलाआ, ण सुटुंदरं भादि रमणिज्जा ।
विदूषकः-तुब्भ उण रमणिजे वि अत्थे ण सुंदरा सद्दावली । कणअकडिसुत्तए विअ लोह किंकिणीमाला, पडिपट्टे विअ टसरिविरअणा गोरंगीए विअ चंदणचच्चा ण चारुत्तणं अवलंबेदि । तधा वि तुवं वण्णीअसि ।
विचक्षणा-अजे! का तुम्हेहि समं अम्हाणं पाडिसिद्धी ? जदो तुवं णाराओ विअ णिरक्खरो वि रअणतुलाए णिउंजीअसि । अहं पुण तुल ब लद्धक्खरा वि ण सुवण्णतोलणे विणिउंजीआमि । निजोदरंभरित्वं निन्दनीयेऽप्यर्थे सुकुमारा ते वाणी, लम्बस्तन्या इवैकावली, तुन्दिलाया इव कञ्चुलिका, काणाया इव कज्जलशलाका, न सुष्टुतरं भाति रमणीया।
ते वाणी न भातीत्यर्थः । विदूषकः
तव पुना रमणीयेऽप्यर्थे न सुन्दरा शब्दावली । कनककटिसूत्र इव लोहकिकिणीमाला, प्रतिपट्ट इव त्रसरविरचना गौराझ्या इव चन्दनचर्चा, न चारुत्वमवलम्बते । तथापि त्वं वार्यसे । __ प्रतिपट्टः पट्टसूत्रम् । चन्दनचर्चायाः स्वतः सुन्दरत्वेऽपि गौरेऽङ्गे परभागालाभादसौन्दर्यम् । अर्थासुन्दरत्वेऽपि काव्यकौशलादहं सुकविः, त्वर्थसौन्दर्येऽप्यसुन्दरकवित्वे वर्ण्यसे च सर्वैरिति महदाश्चर्यमिति भावः । विचक्षणा
आर्य ! मा कुप्य । का युष्माभिः सह (अस्माकं ) प्रतिस्पर्धा ? यतस्त्वं नाराच इव निरक्षरोऽपि रमतुलायां नियुज्यसे । अहं पुनस्तुलेव लब्धाक्षरापि न सुवर्णतोलने चिनियुज्ये।
नाराचो लोहशलाका । नाराचस्य हि रत्नतुलावेधनमुपयोगः । तुलायास्तु सुवर्णतोलने न कोऽपीति निरक्षरलब्धाक्षरपदयोस्तात्पर्यम् । 1 'अज्ज! मा कुप्प । का' इति टीकापाठः।