________________
१८
कर्पूरमञ्जरी
अवि अ,. माणं मुंचध देह वल्लहजणे दिहि तरंगुत्तरं
तारुण्णं दिअहाइ पंच दह वा पीणत्थगुत्थंभणं । इत्थं कोइलमंजुसिंजिद मिसा देवरस पंचेसुणो
दिण्णा चेत्तमहूसवेण सहसा आण व सकसा ॥ १८ ॥ विदूषकः-भो, तुम्हाणं सवाणं मज्झे अहं एक्को कालक्खरिओ। जस्स मे ससुरससुरो परघरेसु पोत्थजभारं वहतो आसि । ___ कडोली वृक्षविशेषः। फणिलताः फणिरूपा लताः । लताविशेषा (ताम्बूलवल्लयः) वा । निष्पष्टं निःशेष नितरां वा। महाराष्ट्रभाषायाम् 'निप्पट' इति प्रसिद्धम् । एतेन मान्द्यादिकमुक्तं वायोः । अत्र प्रसादमाधुर्यसौकुमार्यार्थव्यक्तय ऊह्याः । ते यथा कण्ठाभरणे ( ११६६)-'प्रसिद्धार्थपदत्वं यत्स प्रसादोऽभिधीयते । या पृथक्पदता वाक्ये तन्माधुर्यमिति स्मृतम् ॥ अनिष्ठुराक्षरप्रायं सुकु. मारमिति स्मृतम् । यत्र संपूर्णवाक्यत्वमर्थव्यक्तिं वदन्ति ताम् ॥' इति । एवमग्रेऽपि गुणा द्रष्टव्याः । अत्रानुप्राससमाध्यर्थश्लेषाः। . अपि च,मानं मुञ्चत ददत वल्लभजने दृष्टिं तरङ्गोत्तरां
तारुण्यं दिवसानि पञ्च दश वा पीनस्तनस्तम्भनम् । इत्थं कोकिलम सिअनमिषाद्देवस्य पञ्चेषो
दत्ता चैत्रमहोत्सवेन भुवने आज्ञेव सर्वंकषा ॥ मानलक्षणं (शं. ति २।३२)-'स मानो नायिका यस्मिन्नीग्रंया नायकं प्रति । धत्ते विकारमन्यस्त्रीसङ्गदोषवशाद्यथा ॥' इति । तरङ्गितेति तदाख्यो दृग्विकार उक्तः । 'कल्लोला इव यत्कान्तिविच्छदेस्तत्तरङ्गितम् ।' इति तल्लक्षणम् । चैत्रे मधूत्सवश्चैत्रमधूत्सवः । सर्वकषेति तत्र कामुकरहितत्वं व्यङ्ग्यम् । अत्र विप्रलम्भशृङ्गारः । कोकिलरवादयो विभावाः । दृग्विकारादयोऽनुभावा द्रष्टव्याः । निर्वेदादयो व्यभिचारिणश्च । विदूषकः
भोः, युष्माकं सर्वेषां मध्येऽहमेकः कालाक्षरिकः । यस्य मे श्वशुरश्वशुरः पण्डितगृहे पुस्तकभार वहन्नासीत् । 1 'पंडिअघरे' इति टीकापाठः ।