________________
प्रथमं जवनिकान्तरम् देवी-जधा णिवेदिदं वंदीहिं । पअट्टा जेव मलआणिला। तधा अ,
लंकातोरणमालिआतर लिणो कुंभुभवस्सासमे __ मंदंदोलिअचंदणदुमलदाकप्पूरसंपक्किणो। कंकेल्लीकुलकंपिणो फणिलदाणिप्पट्टणट्टावा
चंडं चुंबिदतंबपण्णिसलिला वाअंति चेत्ताणिला ॥ १७ ॥ वर्धापनं वर्णनम् । विभ्रमेत्यादि मधूत्सवविशेषणानि । तरट्टीति दंष्ट्रादित्वात् । णट्टावअं इति वयोऽनुसारेण । तारुण्यं हि विभ्रमनिदानम् । अथवा यथाऽयं कामिनीनां विभ्रमजनकस्तथा वसन्तोत्सवोऽपि । कामुकान्हि विलोक्य कामिन्यो विभ्रमसमुद्रमना भवन्ति । अर्थत उपमानम् । तेन विभक्तित्वं न दोषः । एतेन खस्य कामुकता व्यङ्ग्या । 'क्रोधः स्मितं च कुसुमाभरणादियाना तद्वर्जनं च सहसैव विमण्डनं च । आक्षिप्य कान्तवचनं लपनं सखीभिर्निष्कारणस्थितगतेन स विभ्रमः स्यात् ॥' इति विभ्रमलक्षणम् । 'तल्लास्यं ताण्डवं चैव छलितं शम्बया सह । हल्लीसकं च रासं च षट्प्रकारं प्रचक्षते ॥' इति षड्मेदमपि नृत्यं गृह्यते । पञ्चमः खरः । कलकण्ठी कोकिला । चार्वित्यादौ विशेषणद्वयं बहुव्रीहिः। विस्तार्येत्यादिना विस्तारिताख्यो दृग्विकार उक्तः। तदुक्तम्-'आयतं विस्फुरत्तारं विस्फारितमुदाहृतम् ।' इति । एतेनादरातिशयो व्यङ्ग्यः । अत्र हेतुरूपके। नर्तकमित्यादौ समाधिः । 'अन्यधर्मस्ततोऽन्यत्र लोकसीमानुरोधिना। सम्यगाधीयते यत्र स समाधिः स्मृतो यथा ॥' (का. ११९३) इति दण्डी।
देवीयथा किल निवेदितं बन्दिभ्याम् । सत्यमेवोक्तमित्यर्थः । प्रवृत्ता एव मलयानिलाः । तथा च,लकातोरणमालिकातरलिनः कुम्भोद्भवस्याश्रमे
मन्दान्दोलितचन्दनदुमलताकर्पूरसंपर्किणः । कछोलीकुलकम्पिनः फणिलतानिष्पष्टनर्तका- ....
श्चण्डं चुम्बितताम्रपर्णीसलिला वान्ति चैत्रानिलाः ॥ क० म०२