________________
१६
कर्पूरमञ्जरी
( अत्रैव । )
द्वितीय:
जाअं कुंकुमपंकलीढमरढीगंडप्पहं चंपअं थोट्टिभदुद्धमुद्धकुसुमा पंफुल्लिआ मल्लिआ । मूले सामलमग्गलग्गभसलं लक्खिजए किंसुअं
पिज्जंतं भसलेहि दोसु वि दिसाभाषसु लग्गेहि व ॥ १६ ॥ राजा - पिए विब्भमले हे ! एको अहं बढावओ तुज्झ, का तुम पि वड्डाविआ मज्झ । किं उण दुवे वि अम्हे वड्डाविदा कंचणचंडरदणचंडेहिं बंदीहिं ? ता विब्भमप्पअट्टावअं तरट्टीणं, णट्टावअं मलअमारुदंदोलिदलदाणच्चणीणं, चारुप्पवंचिदपंचमं कलकंठिकंठेसुं, कंदलिदकंदप्पको अंडदंडाखंडिद कंडचंडिमं, सिणिद्धबंधवं वसुंधरापुरंघीए पसारिदपसप्पमाणेहिं अच्छीहिं महूसवं जधिच्छं पेक्खदु देवी ।
जादं इति ।
जातं कुङ्कुमपङ्कली ढमहाराष्ट्रीगण्डप्रभं चम्पकं
स्तोकावर्तित दुग्धमुग्धकुसुमा प्रोत्फुल्लिता मल्लिका ।
मूले श्यामलमग्रलग्नभ्रमरं लक्ष्यते किंशुकं
पीयमानं मधुपाभ्यां द्वाभ्यामपि दिशाभागेषु लग्नाभ्यामिव ॥
मरढी इति दंष्ट्रादिः । थो इति 'स्तस्य थः' इति थः । स्तोकपदमत्यन्तसादृश्यार्थम् । मुग्धा सुन्दरी । ‘मुग्धः सुन्दरमूढयोः' इत्यभिधानात् । 'महाराष्ट्री' पदं गौरत्वातिशयकथनार्थम् ; स्वभावतस्तद्गण्डानां गौरत्वात् । भसलो भ्रमरः । अत्र रूपकस्वभावोक्त्युत्प्रेक्षाः । स्वभावोक्तिर्दण्डिनोक्ता ( का. २१८ ) - ( नानावस्थं पदार्थानां रूपं साक्षाद्विवृण्वती । स्वभावोक्तिश्च जातिश्चेत्याद्या सालंकृतिर्यथा ॥' इति ।
'राजा
प्रिये विभ्रमलेखे ! एकोऽहं वर्धापकस्तव, एका त्वं वर्धापिका मम । किं पुनर्द्वावप्यावां वर्धापितौ काञ्चनचण्ड रत्नचण्डाभ्यां बन्दिभ्याम् ? तद्विभ्रमप्रवर्तकं तरुणीनाम्, नर्तकं मलयमारुतान्दोलितलतानर्तकीनाम्, चारुप्रपञ्चितपञ्चमं कलकण्ठीकण्ठेषु, कन्दलित कंदर्प कोदण्डदण्डखण्डितचण्डिमानम्, स्निग्धबान्धवं वसुंधरापुरंध्रयाः । प्रसारितप्रमाणे अक्षिणी मधूत्सवं यथेच्छं प्रेक्षतां देवी ।
--