________________
प्रथमं जवनिकान्तरम्
अवमणिदजच्चसुवण्णवण्ण सवंगसुंदरत्तणरमणिज्ज, सुहाअ दे भोदु सुरहिसमारंभो । इध हि,पंडीणं गंडवालीपुलअणचवला कंचिबालाबलाणं
माणं दोखंडअंता रइरहसअरा चोलसीमंतिणीणं । कण्णाडीणं कुणंता कुरलतरलणं कुंतलीणं पिएसुं
गुंफता णेहगंठिं मलअसिहरिणो सीअला एंति वाआ ॥ १५॥ जयेति।
जय जय पूर्वदिगङ्गनाभुजङ्ग चम्पाचम्पककर्णपूर लीलानिर्जितराढादेश विक्रमाक्रान्तकामरूप हरिकेलीकेलिकारक अपमानितजात्यसुवर्णवर्ण सर्वाङ्गसुन्दरत्वरमणीय, सुखाय ते भवतु सुरभिसमारम्भः ।
भुजंगः कामुकः । 'राढागाढत्व' 'चङ्गत्व' इति वा पाठः । 'अवमानितकर्णसुवर्णदान' इति वा पाठः । राज्ञः सर्वाः संबुद्धयः । चम्पाराढाकामरूपहरिकेल्याख्या देशाः । कामस्य रूपमिति न व्याख्या। प्रक्रमभङ्गापत्तेः । चङ्गत्वं नानाकलाकौशलत्वम् । आद्ययोः संबुद्धयो रूपकम् । हरिकेली कामिनीवेत्यर्थश्लेषः । सुरभिर्वसन्तः।
इह हि,पाण्डीनां गण्डपालीपुलकनचपलाः काञ्चीबालावलीनां
मानं द्विः खण्डयन्तो रतिरभसकरा चोलसीमन्तिनीनाम् । कार्णाटीनां कुर्वन्तो कुन्तलतरलनं कुन्तलीनां प्रियेषु
गुम्फन्तः स्नेहग्रन्थि मलयशिखरिणः शीतला यान्ति वाताः ॥ पाण्ड्यादयस्तत्तद्देशोद्भवाः स्त्रियः । पुलकनं पुलककरणम् । तरलनं तरलवत्त्वकरणम् । एतेन कामोद्दीपकत्वमुक्तं दाक्षिणात्यवायूनाम् । एतेन तत्तद्देशाधिपत्य राज्ञो व्यङ्ग्यम् । अन्यथा विपक्षदेशवर्णनं रोषावहत्वादनौचितीमेव व्रजेत् । णेहेति 'स्नेहेति वा' इत्यनेन विप्रकर्षाभावपक्षे 'उपरि लोपः-' इत्यनेन सलोपः । लक्ष्यवशालक्षणप्रवृत्तरङ्गीकारात्, परमपि 'अधो मनयाम्' इति प्राप्त नलोपं बाधित्वा 'न्हस्त्रक्णक्ष्णनां ण्हः' इति ण्हादेशः । 'द्वेर्दो' इति द्विशब्दस्य दोआदेशः । अत्र कारकहेत्वलंकारः। 'हेतुश्च सूक्ष्मलेशौ च वाचामुत्तमभूषणम् । कारकज्ञापको हेतू तौ चानेकविधौ यथा ॥' (का. २।२३५) इति दण्डिनोक्तत्वात् ।