________________
१४
कर्पूरमञ्जरी छोलंति दंतरअणाइ गए तुसारे
ईसीस चंदणरसम्मि मणं कुणंति । एहि सुवंति घरमझिमसालिआसु पाअंतपुंजिअपडं मिहुणाइ पेच्छ ॥ १४॥
(नेपथ्ये ।) वैतालिकयोरेकः-जअ जअ पुबदिसंगणाभुअंग चम्पाचम्पअकण्णऊर लीलाणिजिदराढाचंगत्तण विक्रमकंतकामरूव हरिकेलीकेलिआर वैकात्र दीप्यते।' (का. २१११२) इति दण्डिनोक्तम्। अत्र च ‘देति देंति' इति कथितपदत्वं काव्यदोषो न शङ्कनीयः । विरअंति इत्येतेन च्छेकानुप्रासनिर्वाहकत्वेन गुणत्वात् । तल्लक्षणं च 'सोऽनेकस्य सकृत्यूर्वः' (१।७९) इति काव्यप्रकाशे । अस्यार्थः-अनेकस्य व्यञ्जनस्य सकृदेकवारं साम्यं पूर्व यस्य स च्छे कानुप्रास इति । न चाव्यवधानेन पूर्वतायामेव स इति वाच्य न् । 'ततोऽरुगपरिस्पन्दमन्दीकृतवपुः शशी। दधे कामपरिक्षामकामिनीगण्डपाण्डुताम् ॥' इत्यादावप्यकारमकाराकाराकारपकाराकारव्यवधानेन तदनुदाहरणत्वापातात् । यद्वा एकस्य ‘देंति'पदस्य दानविशेषार्थान्तरसंक्रामितवाच्यत्वाददोष इति युक्तमुत्पश्यामः ।
देवीदेव 1 अहमपि तव प्रतिवधिका भविष्यामि । प्रतिवर्धयतीति प्रतिवर्धिका । वसन्तवर्णिकेत्यर्थः । जधा इति । यथा
स्फुरन्ति दन्तरत्नानि गते तुषारे .
ईषदीपञ्चन्दनरसे मनः कुर्वन्ति । इदानीं स्वपन्ति गृहमध्यमशालिकासु
पादान्तपुञ्जितपटं मिथुनानि प्रेक्षस्व ॥ मध्यमशालिकास्वित्यनेनान्तर्गृहखापस्यक्त इत्युक्तम् । पादान्तेयादिना पटानपेक्षोक्ता । स्फुरन्तीत्यनेनोष्टानां हाससहत्वमुक्तम् । यथा शृङ्गारतिलके (३।२)-'किंचिद्विकसितैर्गण्डैः किंचिद्विस्फारितेक्षणैः । किंचिल्लश्यद्विजैः सोऽयमुत्तमानां भवेयथा ॥ इति । मिथुनानी.ते विरहासहत्वं व्यङ्ग्यम् ।