________________
प्रथमं जवनिकान्तरम्
(ततः प्रविशति राजा देवी विदूषको विभवतश्च परिवारः। सर्वे परिक्रम्य यथो
चितमुपविशन्ति।) राजा-देवि दक्खिणाहिवणरिंदणंदिणि ! वड्डावीअसि इमिणा वसंतारंभेण । जदो,बिंबोट्टे बहलं ण देंति मअणं णो गंधतेल्लाविला
वेणीओ विरअंति लेंति ण तहा अंगम्मि कुप्पास। जं बाला मुहकुंकुमम्मि वि घणे वहति ढिल्लाअरा
तं मण्णे सिसिरं विणिजिअ बला पत्तो वसंतूसवो ॥१३॥ देवी-देव! अहं पि तुज्झ पडिवड्डाविआ भविस्सं । जधा,ता इति । स्थापकः-तद्भाव ! एहि; अनन्तरकरणीयं संपादयावः । यतो महाराजदेव्योभूमिकां गृहीत्वा आर्य आर्यभार्या च जवनिकान्तरे वर्तेते।
तत इति । 'एषामन्यतमेनार्थं पात्रावाक्षिप्य सूत्रधृक् । प्रस्तावनान्ते निर्गच्छेत्ततो वस्तु प्रपञ्चयेत् ॥' (३१२१,२२) इति दशरूपके उक्तत्वात् । 'गूढमन्त्रः शुचिर्वाग्मी भक्तो नर्मविचक्षणः । स्यान्नमसचिवस्तस्य कुपितस्त्रीप्रसादकः॥' (शं.ति. १।२९) इत्युक्त्वा 'पीठमर्दो विटश्चैव विदूषक इति त्रिधा।' इति तद्भेदांश्वोक्त्वा 'क्रीडाप्रायो विदूषकः । खवपुर्वेषभाषामिहर्हास्य कारी खकर्मकृत् ।' (शं. ति. १।३१) इति विदूषकलक्षणमभिहितं शृङ्गारतिलके। राजेति। देवि दक्षिणापथनरेन्द्रनन्दिनि ! वर्धसेऽनेन वसन्तारम्भेण । जदो इति।.
यतः,
बिम्बोष्ठे बहलं न ददति मदनं नो गन्धतैलाविला
वेणीविरचयन्त्याददति न तथाङ्गेऽपि कूर्पासकम् । यद्धाला मुखकुङ्कुमेऽपि घने वर्तन्ते शिथिलादरा
स्तन्मन्ये शिशिरं विनिजित्य बलात्प्राप्तो वसन्तोत्सवः ॥ कूर्पासकं चोलिका । 'बाला स्यात्षोडशाब्दा' इति बालालक्षणम् । अनेन तासां विलासवत्त्वं व्यङ्ग्यम् । बाला इत्यस्यावृत्तेरर्थदीपकम् । 'अनेकशब्दोपादानान्क्रियै
1 अत्र ‘देति' इति पाठो टीकानुगुणः ।