________________
प्रथमं जवनिकान्तरम्
एस कांसतालाणं पक्खाउज्जाणं हलवोलो सुणीअदि । एदं धुवागीदं आलवीअदि । ता किं पि कुडुंब हक्कारिअ पुच्छिस्सं । ( नेपथ्याभिमुखमवलोक्य संज्ञापयति । )
रङ्गभूमिं समाक्रम्य सूत्रधारः स उच्यते ॥' इति । लक्षणं चास्य मातृगुप्ताचार्यैरुक्तम्- 'चतुरातोद्यनिष्णातोऽनेकभूषासमावृतः । नानाभाषणतत्त्वज्ञो नीतिशास्त्रार्थतत्त्ववित् ॥ वेश्योपचारचतुरः पौरुषेयविचक्षणः । तत्तद्गीतानुगानेककलातालावधारणः ॥ अवधार्य प्रयोक्ता च योक्तृणामुपदेशकः । एवं गुणगणोपेतः सूत्रधारः स उच्यते ॥' इति । द्वितीयस्य स्थापकसंज्ञा दर्शिता भरते — 'स्थापकः प्रविशेत्तत्र सूत्रधारगुणाकृतिः ।' इति । सूत्रधार इत्यस्याग्रे क्वचिद्व्यङ्कोऽस्ति । सूत्रधारपदं पुनरप्युच्चारणीयमिति तस्यार्थः । तेन सूत्रधारो वदतीति द्वितीयपदस्यार्थः। एवमग्रेऽपि ज्ञेयम् | नेपथ्याभिमुखमिति । 'नेपथ्यं स्याज्जवनिका रङ्गभूमि प्रसाधनम् ।' इत्यजयः ।
किं उण इति ।
किं पुनर्नृत्यप्रवृत्त इव दृश्यतेऽस्माकं कुशीलवानां परिजनः । जदो इति ।
यत एका पात्रोचितानि सिचयान्युच्चिनोति । इतरा कुसुमावलीर्गुम्फति । अन्या प्रतिशीर्षकाणि प्रसारयति ।
प्रतिशीर्षकाणि नाट्यलोचने- 'अमात्यक किश्रेष्ठिविदूषकपुरोधसाम् । वेष्टनाबद्धपट्टानि प्रतिशीर्षाणि कारयेत् ॥' इति ।
कापि खलु वर्णिकाः पट्टे वर्तयति । चित्रफलकानि चित्रयतीत्यर्थः ।
एष वंशो स्थापितो ध्वानः ।
वंशो वेणुवाद्यम् ।
इयं वीणा प्रतिसार्यते । इमे त्रयोऽपि मृदङ्गाः सृज्यन्ते ।
त्रैविध्यं च भरते– 'मायूरी अर्धमायूरी कूर्मरथी चेति त्रिधा ।' इति ।
एष कांस्यतालानां प्रक्षालनोज्ज्वलानां हलहलः श्रूयते ।
'हलवोल' इति देशी ।
एतद्ध्रुवगीतमालप्यते ।