________________
कर्पूरमञ्जरी
(नान्द्यन्ते।) स्थापकः-(परिक्रम्य नेपथ्याभिमुखमवलोक्य ।) किं उण णट्टप्पउत्तो विअ दीसदि अम्हाणं कुसीलवाणं जणो । जदो एक्का पत्तोइदाइं सिअआई उच्चिणेदि । इदरा कुसुमावलीओ गुंफेदि । अण्णा पडिसीसआई पडिसारेदि । कावि हु वण्णिआओ पट्टए घटेदि । एसो वसो ठाविदो ठाणे । इअं वीणा पडिसारीअदि । इमे तिणि वि मिअंगा सज्जीअंति । __ नान्यन्ते सूत्रधार इति कविवचनम् । एवमग्रेऽपि मध्ये मध्ये कविवचनं संस्कृतं ज्ञेयम् । नान्दीलक्षणं तु-'आशीर्नमस्क्रियारूपः श्लोकः काव्यार्थसूचकः । नान्दीति कथ्यते' इत्यादि भरते । नाट्यप्रदीपेऽपि-'नन्दन्ति काव्यानि कवीन्द्रवर्याः कुशीलवाः पारिषदाश्च सन्तः । यस्मादलं सज्जनसिन्धुहंसी तस्मादलं सा कथितेह नान्दी ॥' इयं च मङ्गलार्था—'यन्नाट्यवत्पुनः पूर्वरङ्गं विघ्नोपशान्तये। कुशीलवाः प्रकुर्वन्ति पूर्वरङ्गः स उच्यते ॥ उत्थापकाः प्रकुर्वन्ति सन्ति भूयांसि यद्यपि । तथाप्यवश्यं कर्तव्या नान्दी विघ्नोपशान्तये ॥' इत्युक्तत्वात् । सा चेहाष्टपदी कृता'नाट्यपूर्वकृता नान्दी त्वाशीर्वचनसंयुता । अष्टाङ्गपदसंयुक्ता प्रशस्ता वेदसंमिता। नान्दी पदैादशभिरष्टभिर्वाप्यलंकृता ॥' इति भरतोक्तेः । पदानि चात्र श्लोकचरणरूपाणि-श्लोकपादं पदं केचित्सुप्तिङन्तमथापरे । परेऽवान्तरवाक्यैकस्वरूपं पदमूचिरे ॥ इति नाट्यप्रदीपेऽभिहितत्वात् । अवान्तरवाक्यपक्षे षट्पदेयं द्रष्टव्या । सा चेयं सूत्रधारप्रयोज्या-'सूत्रधारः पठेन्नान्दी मध्यमं तालमाश्रितः।' इति भरतोक्तेः । ईदृशीं नान्दी पठित्वा सूत्रधारे गते पश्चात्सूत्रधारः स्थापकाख्योऽपरः प्रविशतीति शेषः । उक्तं च दशरूपके-(३।२) 'पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते । प्रविश्य तद्वदपरः काव्यमास्थापयेनटः ॥' इति । भावप्रकाशेऽपि—'इत्थं रॉ विधायादौ सूत्रधारे विनिर्गते । तद्वन्नटः प्रविश्यान्यः सूत्रधारगुणाकृतिः ॥' इति । पूर्वरङ्गशब्दार्थस्तूक्तो वृद्धैः'पूर्व रज्यत इति पूर्वरङ्गो नाट्यशाला । तात्स्थ्यात्प्रथमप्रयोग इति ।' अन्यत्राप्युक्तः–'सभापतिः सभा सभ्या गायका वाचका अपि । अतो रङ्ग इति ज्ञेयः पूर्ववत्परिकल्प्यते । तस्मादयं पूर्वरङ्ग इति विद्वद्भिरुच्यते ॥' इति । सूत्रधारव्युत्पत्तिः संगीतसर्वस्खे-नर्तनीयकथासत्रं प्रथमं येन सूच्यते ।