________________
प्रथमं जवनिकान्तरम्
अवि अ,
ईसारोसप्पसाअप्पणइसु बहुसो सग्गगंगाजलेहिं ___ आमूलं पूरिआए तुहिणकरकलारुप्पसिप्पीऍ रुद्दो। जोण्हामुत्ताहलिल्लं णअमउलिणिहित्तग्गहत्थेहिँ दोहिं
अग्धं सिग्घं व देंतो जअइ गिरिसुआपाअपंकेरुहाणं ॥४॥ तिरेकालंकारो व्यङ्ग्यः । 'महाहिवलया प्राप्ता चन्द्ररेखाविभूषणा' (सप्त. ८1१६) इत्यादौ देव्याश्चन्द्रचूडत्वं प्रसिद्धम् । 'मण्डन'पदेन विरुद्धवेषस्याप्यलंकारकारित्वसूचनाध्यतिरेकालंकार एव व्यङ्ग्यः ॥ अवि अ इति। ईर्ष्यारोषप्रसादप्रणतिषु बहुशः स्वर्गगङ्गाजलै
रामूलं पूरितया तुहिनकरकलारूप्यशुक्त्या रुद्रः । ज्योत्स्नामुक्ताफलाढ्यं नतमौलिनिहिताभ्यामग्रहस्ताभ्यां द्वाभ्या
मध्यं शीघ्रमिव ददजयति गिरिसुतापादपङ्केरुहयोः ॥ बहुश ईर्ष्यारोषयोः सतोः प्रसादार्थ क्रियमाणासु प्रणतिषु नतमौलिनिःक्षिप्ताग्रहस्ताभ्यां द्वाभ्यां गिरिसुतापादकमलयोश्चन्द्रकलारूप्यशुक्त्या शीघ्रममिव ददद्वद्रो जयतीत्यन्वयः । चन्द्रकलायाः शुक्तित्वम् । अन्योऽपि भक्तो जलपूरितया रूप्यशुक्त्या मुक्तायुक्तं प्रणामपूर्व हस्ताभ्यामर्घ ददातीत्यर्थश्लेषः। बहुश इति तस्या मानिनीत्वं व्यङ्ग्यम् । स्वर्गगङ्गेति भावित्वमभिप्रेत्युक्तम् । शीघ्रमिति मानवृद्धिभयं व्यङ्ग्यम् । देवीपादयोश्चन्द्रकलासंबन्धकरणं कदाचिदस्याश्चन्द्रस्योद्दीपकत्वान्मदनावेशेन मानभङ्ग इति शङ्कया । अत्र रूपकम्–'उपमैव तिरोभूतमेदा रूपकमिष्यते' (का.२।६६) इति तल्लक्षणात् । अर्घ्यमिवेत्युत्प्रेक्षा-'अन्यथैव स्थिता वृत्तिश्चेतनस्येतरस्य वा । अन्यथोत्प्रेक्ष्यते यत्तु तामुत्प्रेक्षां विदुर्बुधाः ॥' (का. २॥२२१) इत्युक्तत्वात् । 'परोत्कर्षाक्षमा स्याद्दौर्जन्यान्मन्युतोऽपि वा' इति रसकलिकायामुक्तत्वान्मन्दाकिनीरूपसपत्न्यामीा ज्ञेया गौर्याः । इयं च वाधीनभर्तृका। सा यथा तत्रैव-स्वाधीनपतिका सा तु यां न मुञ्चति वल्लभः' इति । अन्योऽप्यवान्तरनायिकाभेदोऽस्या योजनीयः । 'दाढादयो बहुलम्' इति 'शुक्ति'शब्दस्य सिप्पीत्यादेशः। तदुक्तम्–'अधोवैदूर्यशक्तीनां वधूभ्रमितशब्दयोः । हेहवेरिल्लअंसिप्पी' इति । हलिल्लेति 'आल्विल्लोल्लालवतेंता मतुपः' इति मतुप इलः । 'सेवादिषु वा' इति निहितेत्यत्र वा द्वित्वम् ॥