________________
कर्पूरमञ्जरी
अवि अ,
अकलिअपरिरंभविब्भमाइं अजणिअचुंबणडंबराइं दूरं । अघडिअथणताडणाइँ णिचं णमह अणंगरईण मोहणाई॥२॥ स्थापक:
ससिहंडमंडणाणं छम्महणासाण सुरअणपिआणं ।
गिरिसगिरिंदसुआणं संघाडी वो सुहं देउ ॥ ३॥ इति नलोपे प्राप्ते 'न्हनष्णक्ष्णश्नां व्हः' इति स्नस्य बहादेशे 'उपरि लोपः-' इति तलोपे 'अधो मनयाम्' इति यलोपः ॥ अवि अ इति। अपि च,अकलितपरिरम्भविभ्रमाण्यजनितचुम्बनडम्बराणि दूरम् ।
अगणितघनताडनानि नित्यं नमतानङ्गरत्योर्मोहनानि ॥ - दूरमत्यर्थं ताडनानि चन्द्रकलोद्बोधनार्थानि 'अङ्गुष्ठे चरणे च गुल्फनिलये' इत्यादिना पञ्चसायकाद्युक्तानि । 'ताडन'पदेन नखक्षतादीन्यप्युक्तानि । मोहनानि सुरतानि । अत्र संभोगशृङ्गार उक्तः । चुम्बनताडनपदाभ्यां तज्ज्ञानं लक्ष्यते । तेषां क्रियमाणत्वादेव । परिरम्भादिभेदास्त्वनतिप्रयोजनत्वान्न लिखिताः । अनङ्गरत्योरिति काव्यलिङ्गेन नमतेति पदद्योत्यं सभ्यानामतिरसिकत्वं व्यङ्ग्यम् । सुरतानामतिशयितत्वं च मोहनानीति बहुवचनेनोत्तानकरणादयः सर्वे सुरतबन्धाः सूचिताः। सत्वपि परिरम्भादिषु तज्ज्ञानानुत्पत्तविशेषोक्तिः । सा यथा काव्यप्रकाशे(१०९०८) 'विशेषोक्तिरखण्डेषु कारणेषु फलावचः' इति । काव्यार्थसूचनेऽनङ्गरतिरूपयोश्चन्द्रपालकर्पूरमार्यो यकयोर्मोहनानीति ज्ञेयम् ॥ स्थापकः-- अवि अ, ससीति । शशिखण्डमण्डनयोः समोहनाशयोः सुरगणप्रिययोः । गिरिशगिरीन्द्रसुतयोः संघटना वः सुखं ददातु ॥ मोहने सुरते आशया सहितयोः । मोहस्य नाशेन सहितयोर्वा । जगन्मोहयतीति मोहनोऽनङ्गस्तस्याशेन व्याप्त्या सहितयोर्वा । 'अशूङ् व्याप्तौ' एतस्माद्ध । मोहनस्यासेन क्षेपेण सहितयोर्वा । शिवेन तस्य जितत्वात् । 'शषोः सः' इति सादेशे सर्वत्र सकार एव । अनेन सदा स्त्रीसंगमेऽपि कामजयित्वादन्येभ्योऽतिशयित्वाद्य