________________
प्रथमं जवनिकान्तरम्
निदर्श्यते॥” इति। 'भदं होदु' इत्यादी छेकानुप्रासः। 'कइणो' इत्यादौ वृत्त्यनुप्रासः। स यथा तत्रैव-वर्णवृत्तिरनुप्रासश्छेकवृत्तिगतो द्विधा । सोऽनेकस्य सकृत्पूर्व एकस्याप्यसकृत्परः ॥ इति । इयं च वैदर्भी रीतिः । ओजःप्रसादश्लेषसमाधिमाधुर्यसौकुमायौदार्यार्थव्यक्तिप्रभृतिबन्धगुणानामर्थगुणानां च विद्यमानत्वात् । एतेषां विवरणं न कृतम् ; ग्रन्थगौरवभयात् । एवमन्येऽपि कैशिक्यादयः शब्दालंकारा ज्ञेयाः। 'ध्वनिमत्ता तु गाम्भीर्यम्' (स. क. ११७३) इत्युक्तत्वाद्गाम्भीर्यादयो गुणाश्च । केचित्तु रीत्यादीनामपि गुणत्वं मन्यन्ते । अत्र च ‘रतिर्देवादिविषया' इत्युक्तत्वात्सरखत्यादि. विषया रतिरुक्ता । विदग्धप्रियेत्येतेन विदर्भदेशोत्पन्ननायिकाबोधकेन वैदादिशब्देन च समासोक्त्या रीतेर्नायिकात्वारोपात् , 'काव्यकुशल'पदेन च तेषां नायकत्वारोपात् शृङ्गारो ध्वन्यते । स्थाय्यादि स्वयमूह्यम् । इदं च शार्दूलविक्रीडि. तम्-'सूर्याश्वैर्मसजस्तताः सगुरवः शार्दूलविक्रीडितम्' इति । 'वर्णविन्यासयोगः। पद्यादौ वाद्यवक्त्रे वचसि च सकले प्राकृतादी समोऽयम्' इत्युक्तेर्गगादिविचारः क्रियते--तत्र ‘मो भूमिस्त्रिगुरुः श्रियं दिशति' इत्युक्तत्वाद्गणशुद्धिरत्रास्ति । 'सुखभयमरणक्लेशदुःखान्यवर्गः' इत्युक्तर्वर्णशुद्धिः । 'देवतावाचकाः शब्दा ये च भद्रादिवाचकाः । ते सर्वे नैव निन्द्याः स्युर्लिपितो गणतोऽपि च ॥' इत्यभिधानात् । 'मगण नगण दुइ मित्त होइ भगण यगण होइ मिच। उदासीण जत दुअगणअ अवसिट्ट दुइ अरि णिच्च ॥', 'मित्रान्मित्रादयः स्युर्यदि धनमुदयं शून्यकं बन्धुपीडाम्' इत्यरिसंज्ञकस्य सगणस्य मित्रसंज्ञान्मगणादुत्तरपठितस्य बन्धुपीडाप्रदत्वं न मन्तव्यम् । नान्दीलक्षणे 'शब्दतो वार्थतो वापि मनाकाव्यार्थसूचनम्' इत्युक्तेस्तदप्युच्यते-सरखत्याः स्त्रीरत्नस्य कपूरमञ्जयोः । 'सरस्वती स्यात्स्त्रीरत्ने नद्यां नद्यन्तरे गवि' इत्यजयः । विविधं वस्त्वभिनवमा समन्तादस्यति क्षिपति दर्शयितुमिति व्यासौ भैरवानन्दः । तदीयोद्योगिनः कवयो विद्वांसः कलाकुशलाः । वरा उत्कृष्टा वाणी यस्यां सा कर्पूरमञ्जरीसदृशी कान्ता । विदर्भमगधपञ्चालदेशीयरीतिषु के सुर्ख यामां ता नानाविलासिन्यः काव्याभिज्ञा रसिका इति । 'हरोत्तमाङ्गस्थितवस्तुवर्णनैः' इत्युक्तः 'ज्योत्स्ना'पदेन शिवशिरःस्थितचन्द्रकलास्मारणम् । भई इति भद्रशब्दे 'सर्वत्र लवराम्' इति सूत्रेण रलोपे ‘शेषादेशयोत्विमनादौ' इति दस्य द्वित्वे 'अत
ओ सोः' इति सोरोकारादेशे प्राप्ते 'नपुंसके सोर्बिन्दुः' इत्यनुस्वारः । एवमग्रेऽपि प्राकृतप्रक्रिया ज्ञेया। क्वचिद्विशेषं वक्ष्यामः। छइल्ल-वच्छोमीशब्दौ 'दाढादयो बहुलम्' इति विदग्धवैदर्भीशब्दयोः साधू । जोण्हं इति ज्योत्स्नाशब्दे 'अधो मनयाम'