________________
बालभारतम् वाल्मीकिः-तदेहि । प्राप्तां सायंतनी संध्यामुपास्महे । ततः श्रावयि( श्रो)ष्यामि । संप्रति हि,अयमहिमरुचिर्भजन्प्रतीची कुपितवलीमुखतुण्डताम्रबिम्बः। जलनिधिमकरैरुदीक्ष्यते द्राकवरुधिरारुणमांसपिण्डलोभात् ॥२१॥ अपि च,निर्यद्वासरजीवपिण्डकरणिं कुर्वन् कवोष्णैः करैः .
आञ्जिष्ठं रविबिम्बमम्बरतलादस्ताचलं चुम्बति । किं च स्तोकतमाकलापकलनाश्यामायमानं मनाग्धूमश्यामपुराणचित्ररचनारूपं जगजायते ॥ २२ ॥
(इति परिक्रम्य निष्क्रान्तौ।)
विष्कम्भकः।
(ततः प्रविशति ब्राह्मणवेषो युधिष्ठिरो भीमसेनादयश्च) सहदेव:-इत इतः ।
( सर्वे परिकामन्ति ।) युधिष्ठिरः-वत्स सोदर वृकोदर ! परपुरंजय धनंजय ! मण्डितपाण्डवकुल नकुल ! द्विषदुःसह सहदेव ! इह हि महाराजसमाजे न जाने कमवलम्बिष्यते राधावेधकीर्तिवैजयन्ती ।
भीमः-(विहस्य ।) आया वेत्ति निजां न विक्रमकलां त्वं विश्वरक्षामणिः
किंबूमोऽस्य किरीटिनो न घटते द्रोणेन यस्योपमा। माद्रीनन्दनयोनरेन्द्र ! विनयच्छन्नं हि वीरव्रतं
न भ्राता स तवास्ति यस्य पुरतो राधां परो विध्यति ॥२३॥ अर्जुन:दुर्नमें यदि मुरारिकार्मुकं दुर्भिदं यदि शरव्यमुच्छ्रितम् । दुर्जया यदि च राजमण्डली तत्प्रभो द्रुपदजा न दुर्लभा ॥२४॥ १. राधा धन्विनां लक्ष्यविशेषः.